पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
नैषधीयचरिते

नैषधीयचरिते विधुविरोधितिथेरभिधायिनीं ननु न किं पुनरिच्छति कोकिलाम्। सखि किमर्थगवेषणया गिरं किरति सेयमनर्थमयीं मयि ॥१०७॥ विध्विति ॥ विधुविरोधितिथेश्चन्द्रशत्रुतिथेरमावास्याया अभिधायिनीमपि कुहूशब्दं कुर्वतीमपि कोकिलां पुनः किमिति नेच्छसि । अपि तु स्वशत्रुचन्द्रशत्रुत्वान्माननीयेयम्। अत्रोत्तरम्-हे सखि, कुहूशब्देनामावास्यामाह्वयतीयमित्यर्थगवेषणयार्थविचारणया किम् , अलम् । यस्मात्सेयं कोकिला मयि मद्विषयेऽनर्थमयीममावास्या लक्षणानर्थशू- न्यां । अथ च दुःसहदुःखप्रचुरां । गिरं किरति वदति । शब्दमात्रमेतत्, न तु तामा- ह्वयतीति वञ्चकेयमिति भावः ॥ हृदय एव तवास्ति स वल्लभस्तदपि किं दमयन्ति विषीदसि । हृदि परं न बहिः खलु वर्तते सखि यतस्तत एव विषद्यते ॥१०॥ हृदय इति ॥ हे दमयन्ति, यद्यपि स वल्लभो नलः तव हृदय एवास्ति तदपि तथा- पि किं विषीदसि खेदं कुरुषे, अपितु खेदो न करणीयः। सखीवचः ॥ हे सखि, यतः स हृद्येव परं वर्तते, बहिः खलु निश्चयेन न वर्तते, तत एव तस्मादेव हेतोर्विषद्यते विषादः क्रियत इत्युत्तरम् ॥ स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलंकृतमद्य ते । सखि हतास्मि तदा यदि हृद्यपि प्रियतमःस मम व्यवधापितः१०९ स्फुटतीति ॥ हे भैमि, मदनोष्मणा मदनजनितवियोगानलेन हारमणौ हारे विद्य- मानो नायकमणिः । तत्सहित इत्यर्थः । तस्मिन्स्फुटति विदीर्यमाणे सति अद्य ते हृद- यमपि अनलंकृतं न भूषितमलंकाररहितं जातमिति सखीवचः। मुखादि तु प्रागेव भूषारहितं जातमित्यपिशब्दार्थः । हे सखि, यदि स मम प्रियतमः हृद्यपि व्यवधापि. तोऽन्तर्धापितस्तर्हि हतास्मि, अनलं नलरहितं हृदयं कृतमिति त्वदुक्तेः हृदयादप्यपा. कृतः प्रेयानिति छलेन भैमीवचः । दधातेर्णौ 'अर्ति-' इत्यादिना पुकि व्यवधापितः 'निष्ठायां सेटि' इति णिचो लोपः॥ मूर्छामाह- इदमुदीर्य तदैव मुमूर्छ सा मनसि मूर्छितमन्मथपावका । क्व सहतामवलम्बलवच्छिदामनुपपत्तिमतीमतिदुःखिता ॥११०॥ इदमिति ॥ मनसि मूर्छितः प्राप्तवृद्धिर्मन्मथ एव पावको यस्याः सा भैमी इदं पूर्वो- क्तमुदीर्योक्त्वा तदैव तत्कालमेव मुमूर्छ नवमीमवस्थां प्राप । अनलंकृतमित्यत्रा- लीकया नलराहित्यप्रतीत्या कथं मूर्छां प्रापेत्याशङ्कयार्थान्तरन्यासमाह-अतिदुःखिता सा अनुपपत्तिमतीमघटमानामलीकामप्यवलम्बस्य नललक्षणस्य जीवनाधारस्य यो

लवो लेशस्तस्य या छिदा त्रुटिस्तां क्व कुतः सहतां सोढुं शक्ता स्यात् । न कुतोऽपि ।