सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्तितनुं यदनाशयत् ।
तव तनूमवशिष्टवतीं ततः समिति भूतमयीमहरद्घरः ॥१०॥
सुगत इति ॥ सुगत एव बौद्ध एव त्वां विजित्य त्वां पराभूय तव उरुमहती कीर्ति-
रेव तनुः शरीरमनाशयन्नाशितवान् । यद्यस्माज्जितेन्द्रियः । 'भग्नं मारबलं तेन'
इत्यादिवचनात् । ततोऽनन्तरं जितेन्द्रियो हरः अवशिष्टवतीं भूतमयीं पञ्चमहाभूत-
निर्मितां तव तनुं शरीरं समित्यहरत् । ददाहेत्यर्थः । कीर्तिरूपं शरीरं सुगतश्वेन्नानाश-
यिष्यत्तर्हि सर्वहर्ता हरोऽपि त्वां हर्तुं नाशक्ष्यत् , तस्मात्सर्वेषां वध्य इत्यर्थः । अथ च
भूतमयीं पैशाचीमिति निन्दाप्राकट्यम्१ ॥
फलमलभ्यत यत्कुसुमैस्त्वया विषमनेत्रमनङ्ग विगृह्णता ।
अहह नीतिरवाप्तभया ततो न कुसुमैरपि विग्रहमिच्छति॥ ११ ॥
फलमिति ॥ हे अनङ्ग, कुसुमैर्विषमनेत्रं (त्रिलोचनं) विगृह्णता विरुध्यता त्वया यत्फ-
लमलभ्यत, ततः फलाद्रक्षितरहितानामहह प्राप्तभीतिरिव नीतिः कुसुमैरपि विग्रहं
युद्धं नेच्छति । 'पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः' इति नीतिः । अनङ्ग इति
निन्दा । विरोधस्तु अङ्गसहितेन क्रियते त्वं पुनः स्वयमनङ्गः, विषमो नेत्रो नेता ना-
यकः, तेन दुःसहेन विरोधं कृतवतस्तव महन्मौर्ख्यमित्यर्थः । 'नेत्रो नेतरि भेद्यङ्गे' इति
विश्वः२॥
अपि धयन्नितरामरवत्सुधां त्रिनयनात्कथमापिथ तां दशाम् ।
भण रतेरधरस्य रसादरादमृतमाप्तघृणः खलु नापिबः ॥ ४२ ॥
अपीति ॥ इतरामरवदिन्द्रादिदेववत्सुधाममृतं धयन्नपि पिबन्नपि त्वं त्रिनयनात्स-
काशाद्भस्मसाद्भावरूपां दशां कथं केन प्रकारेण आपिथ प्राप्तवानसि । अमृतपाने तु
इन्द्रादिवत्त्वमप्यमरः कथं नाभूरित्यर्थः । रतेरधरस्याधरोष्ठस्य रसे स्वादे आदरादति-
तरामासक्तेर्हेतोः अमृते स(ता)दृङमाधुर्याभावादाप्ता घृणा जुगुप्सा येनैवंभूतः सन्
खलु प्रायेण अमृतं नापिबः न पीतवानसीति भण ब्रूहि । इति वाक्यार्थः कर्म । खलु
संभावनायां वा । ओष्ठमाधुर्यलम्पटेन त्वयामृतकार्यमृतं न पीतम् । तेनेदृशी दशान-
ङ्गत्वरूपा प्राप्ता । आपिथेति थलि क्रादिनियमादिट्३ ॥
भुवनमोहनजेन किमेनसा तव बभूव परेत पिशाचता।
यदधुना विरहाधिमलीमसामभिभवन्भ्रमसि स्मर मद्विधाम् ४३
भुवनेति ॥ हे परेत प्राप्तमरण, स्मर काम, भुवनमोहनाजातेनैनसा पापेन तव पिशा-
चता बभूव किम् । वदेत्यर्थः । यद्यस्मादधुना विरहाधिना वियोगपीडया मलीमसां
१ 'अत्र रूपकमलंकारः' इति साहित्यविद्याधरी । २ 'अत्र प्रतीयमानोत्प्रेक्षालंकारः' इति सा.
हित्यविद्याधरी । ३ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी ।
पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०५
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
नैषधीयचरिते