पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः १८३


सहचरोसि रतेरिति विश्रुतित्स्वयि वसत्यपि मे न रतिः कुतः। अथ न संप्रति संगतिरस्ति वामनुमृता न भवन्तमियं किल॥७७॥ सहचर इति ॥ रतेः स्वप्रियायाः सहचरोऽसि तया विना एकाकी कुत्रापि न तिष्ठ- सीति यदि विश्रुतिर्जनवादः । अथ च रतेः प्रीतेः। तर्हि त्वयि वसति विद्यमानेऽपि मे मम रतिः प्रीतिः किमिति न चीयते । मयि त्वं वर्तसे रतिश्च नास्ति । सहचरत्वा- दुभाभ्यामपि भाव्यम्, तस्मात्प्रसिद्धिमिथ्यैवेत्यर्थः । अथवा सांप्रतमनङ्गावस्थायां वां युवयोः संगतिर्नास्ति, किल यस्मादियं रतिर्मृतं भवन्तमनुलक्ष्य न मृता अन्वारोहणं न कृतवती । यतः सांप्रतं संगतिमैत्री, साहचर्यं च नास्तीति प्रसिद्धिः। त्वं रतिवियुक्तः। विरुद्धा श्रुतिर्विश्रुतिः प्रसिद्धिरलीकैव । रतिः कामप्रियायां च रागेऽपि सुरतेऽपि च' इति विश्वः१॥ रतिवियुक्तमनात्मपरज्ञ किं स्वमिव मामपि तापितवानसि । कथमतापभृतस्तव संगमादितरथा हृदयं मम दह्यते ॥ ७ ॥ रतीति ॥ हे अनात्मपरज्ञ, आत्मानं रक्ष्यं परं चारक्ष्यं न जानातीत्यनात्मपरज्ञस्तत्सं- बुद्धिः। त्वं रतिवियुक्तां मामिव रतिवियुक्तं स्वमपि आत्मानमपि किमिति तापितवान् दग्धवान् असि । आत्मनः प्रतिकूलं कोऽपि नाचरति, किंतु शत्रोरेव । त्वं तूभयोरित्य- नात्मपरज्ञो भवसीत्यर्थः। एवं कुतो ज्ञातमित्यत आह–इतरथा त्वया आत्मन्यता- पिते सति अतापभृतस्तापरहितस्य तव संगमात्संबन्धान्मम हृदयं कथं कस्मात्कार- णाद्दह्यते संताप्यते । परापकारार्थमात्मानमपि संतापितवान् , एवंविधः परापकार- निरतस्त्वमित्यर्थः। 'संसर्गजा दोषगुणा भवन्ति । संतप्तसंबन्धात्संतप्तत्वं युक्तम् । दह्यत इति, कर्मकर्तरि यक्तंङौ२ ॥ अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता। इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्झितः ॥७९॥ अन्विति ॥नुसंभावनायां संबोधने । हे मार काम, सा सती पतिव्रतात्वेनातिप्रथिता- तिविख्यातापि रतिस्तव प्रिया मृतं त्वामनु कथं न ममार । पतिव्रतया मरणं कर्तव्य- मिति धर्मः। 'मृते म्रियेत या पत्यौ' इत्युक्तेः। न कृतं चेत्तत्रेदं कारणम्-तया दयितयापि इयतीनां बह्वीनामनाथानां रक्षितृरहितानां वियोगिनीनां वधेन पातकी त्वमुज्झितस्त्यक्तोऽसि किम् । 'आशुद्धे: संप्रतीक्ष्यो हि महापातकदूषितः' इति वच- नात् । अत एवानुमरणं न कृतमित्यर्थः । ममार, 'म्रियतेलुङ्लिङोश्च' इति नियमात्त- ङ्ङभावः३॥१ 'अत्र विभावना हेतुश्चालंकारः' इति साहित्यविद्याधरी। २ 'अत्रोपमानुमानं चालंकारः' इति साहित्यविद्याधरी । ३ 'अत्रातिशयोक्त्युत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।