पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
चतुर्थः सर्गः।

क्ततुल्यं चन्द्रं कथमुज्झति त्यजेत् त्यजति तावत् । अतः सुदर्शनबुद्ध्या पूर्वं वदनानीयमानमपि च्छेदभियैवेति ज्ञायते । राहोरुपहारः करम्भो भवति ॥

  वदनगर्भगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम्।
  अशित एव गलत्ययमत्ययं सखि विनागलनालबिलाध्वना ॥६५॥

वदनेति ॥ हे सखि, राहुः वदनस्य गर्भे मध्ये गतं शशिनमसंशयं निःसंदेहं निजेच्छया स्वाभिलाषमात्रेण नोज्झति त्यजति । किंतु राहुणा आशित एव भक्षित एवायं चन्द्रः अत्ययं विना नाशं विना गलनालबिलाध्वना कण्ठकंदलविवरमार्गेण गलति निःसरति । उदराग्नेरभावादमृतरूपत्वाद्विनाशाभावः ।।

  ऋजुदृशः कथयन्ति पुराविदो मधुभिदं खलु राहुशिरश्छिदम् ।
  विरहिमूर्धभिदं निगदन्ति न क नु शशी यदि तज्जठरानलः॥६६॥

ऋजुदृश इति ॥ ऋजुदृशो यथादृष्टग्राहिणः पुराविद ऐतिहासिका मधुभिदं श्रीकृष्णं राहुशिरश्छिदं कथयन्ति । किलेति श्रुतौ । विरहिमूर्धभिदं वियोगिशिरश्छिदं न निगदन्ति । एतद्वक्तुं युक्तम् । परं तीक्ष्णप्रज्ञत्वाभावादन्यथा वदन्ति । नुः प्रश्ने, संबोधने वा । यदि तस्य एहोर्जठरानलो जठराग्निः स्यात् , तदा शशी चन्द्रः क्व, अपितु न कुतोऽपि । राहोः शिरश्छेदेन भक्षितोऽपि चन्द्रो जढराग्निं विना गच्छति। ततश्चन्द्रस्य विद्यमानत्वाद्विर(हि)णामपकारित्वाद्विचार्यमाणो विष्णुरेव विरहिमूर्धभिदित्याशयः ॥

  स्मरसखौ रुचिभिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः।
  सपदि संदधतुर्भिषजौ दिवः सखि तथा तमसोपि करोतु कः ॥६७॥

स्मरेति ॥ हे सखि, रुचिभिः स्मरसखौ कामसदृशौ दिवो भिषजौ स्वर्वैद्यौ दस्रौ स्मरवैरिणा शिवेन दलितं खण्डितं मखमृगस्य शिरो यथा सपदि तत्क्षणमेव संदधतुर्घटयामासतुःतथा तमसोऽपि राहोरपि कः करोतु। एतादृशः कोऽपि नास्ति । मदनारिणा यत्कार्यं कृतं, तन्मदनमित्त्रेण मदनेन वा मोघीकर्तव्यम् । ततः स्मरमित्त्रत्वाद्भिषक्त्वाच्च कामारिणा छिन्नं मृगशिरस्ताभ्यां कबन्धेन मेलितम् । तथा विरहिवैरिणा विष्णुना छिन्नं राहुशिरः कः संघट्टयतु । विरहिमित्त्रस्याभावादिति भावः। तात्कालिकसंधानं दृढं भवतीति सपदीत्युक्तम् । 'तमस्तु राहुः स्वर्भानुः' इत्यमरः ॥

  नलविमस्तकितस्य रणे रिपोर्मिलति किं न कबन्धगलेन वा।
  मृतिभिया भृशमुत्पततस्तमोग्रहशिरस्तदसृग्दृढबन्धनम् ॥ ६८ ॥


१ 'अत्रानुमानम्' इति साहित्यविद्याधरी । 'उत्प्रेक्षा' इति जीवातुः। २ 'अंत्र विरोधाभासः' इति साहित्यविद्याधरी । 'उत्प्रेक्षार्थः' इति जीवातुः । ३ 'अत्र हेतुः इति साहित्यविद्याधरी । ४ 'अत्रोपमा' इति साहित्यविद्याधरी।