पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः नैषधीयचरितप्रस्तावना । गोपालसेवासततानुरक्तश्रीमाधवाधीशसुदृष्टिहृष्टे । लक्ष्मीसमुल्लासितकान्तिचन्द्रामात्यप्रसादेन निरन्धकारे ॥ ढुण्डारदेशे जयपत्तनेऽस्मिन्नधीतिना संस्कृतशास्त्रसार्थे । दाधीचबिद्वच्छिवदत्तनाम्ना प्रयत्यते शोधनभूमिकार्थम् ।। धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयसंपत्तिर्हि शब्दार्थज्ञानाधीनेति निर्विवादम् । शब्दार्थज्ञानं हि शक्तिग्रहाधीनम् । शक्तिग्रहश्च- 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याझ्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यत: सिद्धपदस्य वृद्धाः ॥' इत्यभियुक्तोक्त्या व्यवहारत एव निदोषप्रयोगहेतुर्भवति । व्यवहारज्ञानं च 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये। सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ इत्यभियुक्तोतया कालिदासादीनामिव यशोजनकात्, श्रीहर्षादितो बाणादीनामिवार्थ- प्रापकात्, मयूरादीनां सूर्यस्तुत्यादिनानर्थवारकात् , सद्यः परमानन्दजनकात् , कान्तासंमित- तया स्नेहप्रधानोपदेशजनकात् काव्यादेव भवति । काव्येषु च महामहोपाध्यायपण्डितदुर्गाप्रसादशर्मप्रकाशितकाव्यमालामुद्रणतः प्राक्काले , १ श्रीमन्महाराजाधिराजश्री १०८ युतसवाईमाधवसिंहजी(G.C.S. I.) वर्मणां सौम्यदृष्ट्या हर्षिते । एतेनैतंदीयराज्ये सर्वासां प्रजानां राजभयमन्तरेणैव स्वखधर्मनिष्ठलध्वननेन राज्ञः कोपस्यानावश्यकलं ध्वनितम् ॥ २ बाबूसाहिबश्रीयुतरावबहादूरकान्तिचन्द्रमुकुरजी (C. I. E.) शर्मणां प्रसन्नतयैव, न खधिकारिणां भर्त्सनेन ॥ ३ उत्कोचादिजन्यान्यायरूपान्धकारशून्ये ॥ ४ केवलकोषस्यैव शक्तिग्राहकले पुंलिङ्गदैवतशब्दप्रयोगस्य, केवलव्याकरणस्यैव शक्तिग्राहकले बहुवचनपरस्यान्तिपरस्यापि वा वच्धातोः प्रयोगस्यापत्तिः ॥ ५ तथाहि सुभाषितावलीभूमिकायां १३८ पृष्ठे डाक्टरपिटरपिटरसन-महामहो- पाध्यायदुर्गाप्रसादशर्मभ्यामुपदर्शितः सारसमुच्चयाख्यकाव्यप्रकाशव्याख्यीयश्लोक:- "हेनो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तत् । या वाणेन तु तस्य सूक्तिनिकरैरुङ्किताः कीर्तय- स्ताः कल्पप्रलयेऽपि यान्ति न मनाग् मन्ये परिम्लानताम् ॥" ॥ इति ॥ ६ एतेन प्रभुसंमितस्य वेदादेः, मुहृत्संमितस्य पुराणेतिहासादेावृत्तिः ॥ ,