पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
नैषधीयचरिते

त्यते, कणाश्चोर्ध्वं गच्छन्ति । 'शिती धवलमेचकौ' इत्यमरः । अवाप्येति ण्यन्तस्य । तारकितम् , तारकादित्वादितच् ॥

  त्वमभिधेहि विधुं सखि मद्गिरा किमिदमीदृगधिक्रियते त्वया ।
  न गणितं यदि जन्म पयोनिधौ हरशिरःस्थितिभूरपि विस्मृता ॥५०॥

त्वमिति ॥ हे सखि, त्वं मद्गिरा भैमी त्वां पृच्छतीति विधुमभिधेहि वद् । हे चन्द्र, विशिष्टकुलोत्पन्नेन त्वया विरहिणीवधलक्षणमीदृङ्निन्द्यं कर्म किमित्यधिक्रियतेऽङ्गीक्रियते । एवं कर्म कर्तुं न युक्तं भवतीत्यर्थः । परापकारकरणे कारणमाह-लक्ष्मीन्द्वोर्जनकत्वादि(द)तिकुलीने पयोनिधौ रत्नाकरे जन्म यदि न गणितं न विचारितं तर्हि हरशिरःस्थितिलक्षणा भूरपि उत्तमसंसर्ग इत्यर्थः । सापि विस्मृता । काकुः । यस्तु कुलीनो भवति सत्संनिधौ च वर्तते स परापकारं न करोति । त्वया कुलीनत्वं सत्संनिधित्वं चोभयमपि विस्मृतम् । पापिना सह मया नोच्यत इति मद्गिरेत्यनेन सूचितम् ॥

  निपततापि न मन्दरभूभृता त्वमुदधौ शशलाञ्छन चूर्णितः ।
  अपि मुनेर्जठरार्चिषि जीर्णतां बत गतोऽसि न पीतपयोनिधेः॥५१॥

निपततेति ॥ शशलान्छन अतिनिन्दितकर्मश्चन्द्र, उदधौ निपतता मन्दरसंज्ञकेन भूभृता पर्वतेनापि समुद्रे स्थितस्त्वं न चूर्णितः । तथा पीतपयोनिधेर्मुनेरगस्त्यस्य जठरार्चिष्युदराग्नावपि जीर्णतां नाशं वातापिवन्न गतोऽसि । वत उभयत्रापि खेदः। जीर्णतामपीति वा । अस्मदभाग्येन तद्वयमपि तव न जातम् । अतिदाहकत्वात्ताभ्यामपि परित्यक्तस्त्वम्॥

  किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः ।
  मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरांविबुधः स्मरः॥५२॥

किमसुभिरिति ॥ हे जड मूर्ख, त्वं किमिति मन्यसे । इति किम्-ग्लपितैः क्षतैर्गतैरित्यर्थः । एवंविधैरसुभिः प्राणैः कृत्वा भीमसुतामनो मयि निमज्जतु निलीयतामिति । 'मनश्चन्द्रे निलीयते' इति श्रुतेः । प्राणेषु गतेषु भैमीमनो मयि निलीनं भविष्यतीति चित्ते मा कार्षीरित्यर्थः । श्रुतिरप्रमाणमित्यपि न मन्तव्यमित्याह-किल यस्मान्मेधावी कामो मम संबन्धिनीं तदर्थिकां चन्द्रे मनोलयप्रतिपादिकां श्रुतिं नलमुखेन्दुपरां नैषधवनचन्द्रपरामाह वदति । पण्डितेन कामेन सामान्यापि श्रुतिर्विशिष्टविषयीकृता । अतिपीडायां कृतायामप्यहं त्वदधीना न भवामि, किं तु नलाधीनैवेति तात्पर्यम् । मूर्खस्त्वापाततः श्रुतेरथं गृह्णाति । पूर्वापरानुसंधानात्पण्डितस्तु श्रुतेरर्थं ब्रूते ॥


१ 'अत्र रूपकमनुमानं च' इति साहित्यविद्याधरी । २ 'अत्रोपालम्भः' इति साहित्यविद्याधरी । ३. 'अत्र विभावनालंकारः' इति साहित्यविद्याधरी। ४. अत्र रूपकमतिशयोक्तिश्च' इति साहित्यविद्याधरी