पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
चतुर्थः सर्गः

  हृदि लुठन्ति कला नितराममूर्विरहिणीवधपङ्ककलङ्किताः ।
  कुमुदसख्यकृतस्तु बहिष्कृताः सखि विलोकय दुर्विनयं विधोः ॥४७॥

हृदीति ॥ हे सखि, एतादृशं विधोश्चन्द्रस्य दुर्विनयमविनीतत्वं विलोकय । कीदृशं तदाह-नितरां विरहिणीवध एव पङ्कः पातकं तेन कलङ्किता मलिनिता अमूदृश्यमानाः कला हृदि लुठन्ति क्रीडन्ति । तु पुनर्विशेषे वा । कुमुदसख्यकृतः कुमुदमैत्रीकारिण्यः कला बहिःकृता दूरत एव धृताः। याः कलाः कुमुदविकासकारिण्यः परोपकारशीलास्ता बहिःकृताः। पातकिन्यः परापकारपरास्ता एव हृदि क्रीडन्ति । यस्तु विनीतो भवति स तूपकारिणं हृदये धारयति, पापिनं बहिरेव स्थापयति । पापी तु विपरीतं करोति । 'अस्त्री पङ्कं पुमान्पाप्मा' इत्यमरः ॥

  अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यात दाहवदान्यता ।
  ग्लपितशंभुगलाङ्गरलात्त्वया किमुदधौ जड वा वडवानलात् ॥४८॥

अयीति ॥ अयि सखि, त्वं विधुं इति स्फुटं स्पष्टं परिपृच्छ । इति किम्-हे चन्द्र, त्वया कुतः कस्माद्गुरोर्दाहवदान्यता दाहदातृत्वमशिक्ष्यत अभ्यस्ता । हे जड, अनुचिताभ्यासकारिन्दुर्मते, ग्लपितो दग्धः शीतलः शंभुगलो येन तस्माद्गरलाद्विषात्किमंशिक्ष्यत । तन्मस्तके स्थित्वा इदमभ्यस्तम् । वाथवा उदधौ स्थिताद्वडवानलाद्वडवाग्नेर्वा । ईश्वरसंनिधानवशात्समुद्रसंनिधानवशाच्च गरलवडवाग्निभ्यामभ्यस्तमिति संभाव्यते । विषस्य समुद्रोत्पन्नत्वाच्चन्द्रस्यापि तत एवोत्पन्नत्वाद्वडवाग्नेश्च तत्रैव स्थितत्वात्संभाव्यत इति वा। चन्द्रस्ताभ्यामप्यधिकं पीडयतीत्यर्थः । जलस्य संतापकारित्वमन्यसंयोगाद्भवद्विषमग्निं वा कल्पयतीति युक्तमूलो वितर्कः । गुरोः, 'आख्यातोपयोगे' इत्यपादानत्वम् ॥

  अयमयोगिवधूवधपातकैर्भ्रमिमवाप्य दिवः खलु पात्यते ।
  शितिनिशादृषदि स्फुटदुत्पतत्कणगणाधिकतारकिताम्बरः ॥४९॥

अयमिति ॥ अयं चन्द्रः अयोगिन्यो वियोगिन्यो वध्वः स्त्रियस्तासां वधस्तज्जन्यैः पातकैः कर्तृभिर्भ्रमिं भ्रमणमवाप्य प्राप्य दिवः स्वर्गादाकाशाच्च शितिनिशाकृष्णरात्रिस्तल्लक्षणायां दृषदि शिलायां पात्यते, खलूत्प्रेक्षे । शिलापतनादेव स्फुटन्तो विदीर्यमाणा उत्पतन्त उच्छलन्तः कणगणा लेशसमूहास्तैरधिकमतिशयेन तारकितं संजाततारकमम्बरं यस्मात् । शुक्लपक्षे परिपूर्णत्वाच्चन्द्रेण विरहिण्यः पीड्यन्ते, तारकाश्च परिभूयन्ते कृष्णपक्षे चन्द्रक्षयाद्विरहिणीनां तादृशी पीडा न भवति, तारकाश्च स्पष्टतरा भवन्ति । भ्रमणं तस्य स्वतःसिद्धम् । शिलायां पातितश्चूर्णीभूतोऽपि यद्यपि तथापि भावं न त्यजति । उत्प्रेक्षे। अन्योऽपि पातकी पातकैर्भ्रमयित्वातिगौरशिलायां स्वर्गान्निपा.


१ 'अत्र समासोक्तिः' इति साहित्यविद्याधरी। २ 'अत्र च्छेकानुप्रासः' इति साहित्यविद्याधरी।