पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
चतुर्थः सर्गः।

 पिकरुतीति ॥ पिकरुतिश्रुत्या विरहित्वात्कोकिलालापश्रवणेनोत्कम्पिनि हृदि तया संतापनिवृत्त्यर्थं निहितं निक्षिप्तं हृदयस्य सकम्पत्वाद् विचलद्विशेषेण कम्पमानं शैवलं सतततद्गतो निरन्तरं भैमीगतो, हृद्गतो वा हृच्छयः कामस्तस्य केतुना ध्वजेन हतमिव वभौ शुशुभे । किंभूतेन केतुना-स्वतनुं स्वशरीरं घनं निविडं घर्षतीत्येवंशीलेन । मत्स्यो हि शैवले घर्षणं करोतीति जातिः। घर्षणस्य घनत्वं कम्पबाहुल्यसूचनार्थम् । निक्षिप्तेऽपि शैवले कोकिलालापस्तां दुनोति स्मेति भावः । हृच्छय-इत्यत्र 'शयवास-' इति विकल्पितत्वाल्[१]लुक् ॥

 बाष्पातिरेकमाह-

न खलु मोहवशेन तदाननं नलमनः शशिकान्तमबोधि तत् ।
इतरथा शशिनोभ्युदये ततः कथमसुस्रुवदमयं पयः ॥ ३६ ॥

 नेति ॥ नलमनो नलान्तःकरणं कर्तृ तत् सुन्दरम् । अथवा यत्सर्वदोन्मादवशेन पश्यति, तत्तदाननं भैमीमुखं कर्म उन्मावशाच्छशिवत्कान्तं रमणीयं चन्द्रकान्तमणिविशेषरूपं न खलु नैवाबोधि । अबुद्धति काकुः । किंतु सम्यगेवाबोधीत्यर्थः । किंतु तत्वत एव चन्द्रकान्तत्वं तस्य तेन ज्ञातमित्यर्थः । इतरथा पूर्ववर्धनापि भ्रान्तमेव चेत्तस्य चन्द्रकान्तत्वं तस्मात्तर्हि शशिनोभ्युदये सति ततो मुखादस्त्रुमयं बाष्परूपं पय उदकं कथमसुस्त्रुवत्स्त्रवति स्म । चन्द्रोदये चन्द्रकान्तादुदकं स्रवति नान्यस्मात् । चन्द्रोदये मुखाजलं स्त्रवति तर्हि तात्त्विकमेव चन्द्रकान्तत्वं नतु भ्रान्तमित्यर्थः । चन्द्रवकान्तमिति पक्षे वैरिणा चन्द्रेण सह स्पर्धमानत्वात्तदुदये दुःखवशात्ततोस्त्रु (कथं) निःसृतं, वैरिण उदयेऽन्यस्यापि दुःखादस्त्रु निर्गच्छति न त्वन्यस्य, तस्मात् चन्द्रस्पर्धीति तत्त्वं ज्ञातम् । चन्द्रवत्कान्तः, चन्द्रः कान्तो यस्येति चोक्तौ चन्द्रमित्रत्वप्रतीतिः, ततश्च मित्रोदये आनन्दास्तु निर्गच्छति वा । चन्द्रोऽपि तां भृशमपीडयदित्यर्थः । असुस्त्रुवत्, 'णिश्रिद्रुस्त्रुश्यः कर्तरि चङ्'[२]

रतिपतेर्विजयास्त्रमिषुर्यथा जयति भीमसुतापि तथैव सा ।
स्वविशिखानिव पञ्चतया ततो नियतमैहत योजयितुं सताम् ३७

 रतीति ॥ रतिपतेः कामस्य इषुर्यथा विजयास्त्रं विजयसंबन्धि विजयसाधनमस्त्रं जयति तथैव कामदेवबाणवदेव सा भीमसुतापि विजयसाधनमस्त्रं सर्वोत्कर्षेण वर्तते । कुतो ज्ञातमित्यत आह-तत एव हेतोः स कामः पञ्चतया पञ्चत्वसंख्यया स्वविशिखानिव स्वबाणानिव तां भैमी नियतं नियमेन पञ्चतया योजयितुमैहत । पञ्चतया योजनं युक्तमिति छलना । अत्र मुमूर्षुतोक्ता । 'पञ्चता पञ्चभावः स्यात्पञ्चता मरणेऽपि 'च' इति विश्वः[३]


  1. 'अत्रोत्प्रेक्षा' इति 'जीवातुसाहित्यविद्यार्यै ।
  2. 'अत्रानुमानालंकारः' इति साहित्यविद्याधरी।
  3. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी । 'उपमोत्प्रेक्षयोः संकरः' इति जीवातुः ।