पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य साधारणधर्मत्वान्मदोषादक्षरयोजकदोषाद्वा वचनाशुद्धिः स्थिता जाता वा । तां सहृदयहृदया: संशोध्य पाठयन्तु च्छात्रान् । अहमपि द्वितीयावृत्तौ शोधयिष्यामि । यतः- गच्छतः स्खलनं कापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ इति प्रार्थयति पञ्चनददेशीयविश्वविद्यालयान्तर्गतसंस्कृतश्रेण्यध्यक्षप्रधानाध्यापकपण्डित- शिवदत्तशर्मा।