पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
चतुर्थः सर्गः।

 विनिहितमिति ॥ परितापिनि विरहसंतप्ते हृदि तया भैम्या विनिहितं निक्षिप्तं धृतं वुद्बुदं धृतचन्द्रकं चन्दनं विधुरिव चन्द्र इवावभौ शुशुभे । किंभूतो विधुः-हृदयेशयं हृदि विद्यमानं सुहृदं काममुपनमन्नुपागच्छन् । तथा—अङ्कगतः समीपमागतः उडवो नक्षत्राण्येव परिग्रहो यस्य । अथ च-स्त्रीत्वादुत्सङ्गवर्तिनक्षत्रसमूहः । घनस्य चन्दनस्य चन्द्रतुल्यत्वं, वुद्बुदानां च नक्षत्रतुल्यत्वम् । अन्योऽपि सपरिग्रहो मित्रमुपागच्छति । हृदयेशयम्, 'शयवासवासिष्वकालात्' इति सप्तम्या अलुकू[१]

स्मरहुताशनदीपितया तया बहु मुहुः सरसं सरसीरुहम् ।
श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितमर्मरमुज्झितम् ॥ २९ ॥

 स्मरेति ॥ स्मर एव हुताशनोऽग्निस्तेन दीपितया तया भैम्या बह्वनेकं सरसमार्द्रं सरसीरुहं कमलं श्रयितुमाश्रयितुं महुर्वारंवारमर्धमार्गे कृतं श्वसितेन निःश्वासवायुना निर्मितो मर्मरः शुष्कपर्णध्वनितं यस्यैवंभूतं निरुपयोगित्वादन्तरा मध्य एव निकटमनीत्वैवोज्झितं त्यक्तम् । संतापाधिक्यं सूचितम् । 'अथ मर्मरः । स्वनिते वस्त्रपर्णानाम्' इत्यमरः । अर्धपथे, 'अर्धं नपुंसकम्' इति समासः । 'ऋक्पूर्-' इति समासान्तः । 'अर्धपथम्' इति पाठे अत्यन्तयोगे द्वितीया[२]

प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति ।
जगदतुर्निहिते हृदि नीरजे दवथुकुड्मलनेन पृथुस्तनीम् ॥ ३० ॥

 प्रियेति ॥ हृदि निहिते स्थापिते नीरजे कर्तृणी दवथुना संतापेन कुड्मालनं संकोचः, तेन कृत्वा पृथुस्तनीं भैमीं प्रति इति जगदतुरिव । इति किम्-'हे भैमि, तब स्तनयुगं एवमस्मन्मुकुलकृतग्रहणरीत्या एवमनेन प्रकारेण मम यथा संकोचो जातस्तथा तदाकारेण वा प्रियकरग्रहं नलपाणिसंबन्धं प्राप्स्यति, किं नु ताम्यति ग्लायति । नुः प्रश्ने । ग्लानिर्न कार्येत्यर्थः । संतापवशात्कमलसंकोचः[३]

त्वदितरोऽपि हृदा न मया धृतः पतिरितीव नलं हृदयेशयम् ।
स्मरहविर्भुजि बोधयति स्म सा विरहपाण्डुतया निजशुद्धताम ३२

 त्वदिति ॥ सा हृदयेशयं नलं विरहेण या पाण्डुता तया स्मर एव हविर्भुजि वह्नौ निजशुद्धतां स्वीयपातिव्रत्यमिति बोधयति स्मेव ज्ञापयति स्म । इति किम्प्रि-हे प्रिय, मया त्वदितरस्त्वत्तोऽन्यः पतिः हृदापि मनसापि न धृतः, क्क नु हस्तादिनेति । भैम्यन्तः कामः, पाण्डुता च विद्यत इति । अन्यापि सती वह्नौ स्वीयशुद्धतां पतिं बोधयति । बुद्ध्यर्थत्वादणिकर्तुर्णौ कर्मत्वम्[४]


  1. 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी ।
  2. 'ईदृग्धर्मासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिभेदोऽलंकारः' इति जीवातुः।
  3. 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी ।
  4. 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी ।