पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
नैषधीयचरिते

सूर्यत्वमारोपितं चेत्तर्हि स तु पुनः सूर्यः वियोगभरेण विरहबाहुल्येनापि यदस्फुटनमविदीर्णत्वं तेन स्फुटीकृतं दृषत्त्वं पाषाणत्वं यस्य येन वा एवंविधमतिकठिनमपि तस्या हृदयमंशुभिः कृत्वा कथं तथा अनिर्वाच्यमजिज्वलद्ददाह । नह्यारोपितेऽग्नित्वे अग्नितुल्योऽयमिति तस्य दाहसामर्थ्यं, पाषाणदाहे त्वनिर्वाच्यम् । अत एव अहो आश्चर्यम् । मानितेऽपि सूर्यत्वे विरहिणः सूर्यस्य च परस्परमित्रत्वात्कथं दाहकत्वम् । अत एवाश्चर्यम् । यदि चन्द्रः सूर्यो मानितो न तु तात्त्विकस्तर्हि तापातिभरास्फुटनलक्षणेन साम्येन प्रकटीकृतं सूर्यकान्तत्वम् , येनैवंविधं भैमीहृदयं करैः कृत्वा कथं तथाजिज्वलत् । चन्द्रस्य कुत्रापि दाहकत्वमदृष्टचरमश्रुतचरं च । सूर्यस्य तु प्रसिद्धम् । अतोऽयं तात्त्विकः सूर्य एव । अन्यच्च सूर्यकान्तज्वलनं सूर्य एव करोति न त्वन्यः, अतस्तात्त्विकः सूर्य एव न त्वारोपितः। आरोपितत्वादाश्चर्यमित्यर्थः । विरहित्वाच्चन्द्रकिरणास्तया न सोढा इति भावः[१]

 द्वाभ्यां मृतिं सूचयति-

हृदयदत्तसरोरुहया तया क सदृगस्तु वियोगनिमग्नया ।
मियधनुः परिरभ्य हृदा रतिः किमनुमर्तुमशेत चितार्चिषि ॥२१॥

 हृदयेति ॥ विरहाग्निपीडितत्वान्निःसहया शैत्यार्थं हृदये दत्तं सरोरुहं कमलं यया तया भैम्या सदृक् तुल्या क्क कस्सिन्देशे अस्तु, अपि तु तत्तुल्यान्या कापि कुत्रापि नास्ति । रतिर्भवेदित्याशङ्कय दूषयति-रतिः प्रियधनुः हृदा परिरश्यालिङ्गय अनुमर्तुं मदनस्य पश्चान्मरणार्थे चितार्चिषि चिताग्नौ किमशेत निद्रिता । अपितु न । तस्माद्रतिः समाना न । क्षत्रियाणां देशान्तरे मृतानां स्त्रियो धनुरालिङ्ग्यानुम्रियन्त इत्याचारः। विरहसंतप्तत्वाच्छीतलत्वोपचारः। विप्रयोगस्य वह्नित्वं व्यङ्ग्यं चितार्चिषीत्यनेन । 'तदा रतिः' इति पाठः समीचीनः । सदृक्, 'समानान्ययोश्च' इति वक्तव्यात्क्किन् । 'दृग्दृशवतुषु' इति सभावः[२]

अनलभावमियं स्वनिवासिनो न विरहस्य रहस्यमबुध्यत ।
प्रशमनाय विधाय तृणान्यसूञ्ज्वलति तत्र यदुज्झितुमैहत ॥२२॥

 अनलेति ॥ इयं भैमी स्वनिवासिनः स्वीयस्य विरहस्य रहस्यं तात्त्विकमनलभावमग्नित्वं नाबुध्यत नाजानात् । यद्यस्मात् तत्र विरहे ज्वलति दीप्यमाने सति असून्प्राणांस्तृणानीव कृत्वा प्रशमनाय विरहवह्निशान्त्यर्थमुज्झितुं त्यक्तुमैहत ऐच्छत् । विरहस्य

वह्नित्वं चेज्ज्ञातं स्यात्तच्छान्त्यर्थ तृणक्षेपं न कुर्यात् । अतो विरहस्य वह्नित्वं नाजानादित्यर्थः । किं तु स्वीयविरहस्य अनलभावं नलस्य भावः प्राप्तिस्तभावं नलप्राप्त्यभावलक्षणं रहस्यं मूलकारणं नाज्ञासीत्, अपितु जानाति स्मैव । नलविरहे मरणमेव ज्यायो नतु जीवनमित्यैच्छदिति भावः। यतःस्वविरहस्य रहस्यं स्वेन ज्ञायते, तस्मात्स्वी-


  1. 'अत्र विरोधालंकारः' इति तिलकसाहित्यविद्याधर्यो ।
  2. 'अत्रोत्प्रेक्षा' इति तिलकसाहित्यविद्याधर्यो ।