पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
नैषधीयचरिते

मानन्तरं तस्य गुप्तप्रवेशो दुर्गस्थैरनुमीयते । पद्मिनीत्वान्निःश्वासस्य गन्धवहत्वम् । व्रीह्यादित्वान्मा[१]यी ॥

विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकैः ।
दश दिशः खलु तद्दृगकल्पयल्लिपिकरी नलरूपकचित्रिताः ॥१५॥

 विरहेति ॥ तद्दृक् भैमीदृष्टिलक्षणा लिपिकरी चित्रकारिणी विरहेण जनितः पाण्डिमा पाण्डुरत्वं, तथा रागोऽनुरागो लोहितिमा च, तमो मूर्छा तल्लक्षणा मषी तस्याः शितिमा कृष्णता स प्रसिद्धो निजः स्वीयः पीतिमा गौरत्वं एतद्रूपैर्वर्णैः कृत्वा । खलु अप्यर्थः। दशापि दिशः नलरूपकैर्नलप्रतिच्छन्दकैः चित्रिताश्चित्रयुक्ता अकल्पयत् । पाण्डिमा तु मुख एव प्रकटः, अन्यत्र तु पीतिमा । स चासौ निज इति विग्रहः । निजो दृक्संबन्धी, तस्या भैम्याः सहजो यः पीतिमेति वा । विरहवशात्पाण्डिमादयो वर्णा जाताः उन्मावशाद्दशस्वपि दिक्षु नलमेवापश्यदिति भावः । खलुरिवार्थे वा । लिपिकरीवेत्युत्प्रेक्षा । लिपिकरी, 'दिवाविभा-' इति टे टित्त्वान्ङीप्[२]

स्मरकृतां हृदयस्य मुहुर्दशां बहु वदन्निव निःश्वसितानिलः ।
व्यधित वाससि कम्पमदःश्रिते त्रसति कः सति नाश्रयबाधने ॥१६॥

 स्मरकृतामिति ॥ निःश्वसितानिलो निःश्वासवायुः भैम्या हृदयस्य स्मरकृतां दशां पीडां मुहुः बह्वतिशयेन सखीजनस्य पुरस्ताद्वदन्निव कथयन्निव अदो हृदयं श्रिते आश्रिते वाससि कम्पं व्यधित चकार । विरहवशान्निःश्वासानां बाहुल्यात्तस्या हृदयं चकम्पे, तत्कम्पवशाद्वस्त्रमपि चकम्प इत्यर्थः । उचितमेतत् । आश्रयस्य बाधने पीडायां सत्यामाश्रितः कोऽपि न त्रसति बिभेति, अपितु सर्वो बिभेत्येव । कम्पितहृदयाश्रितस्य वस्त्रस्यापि कम्पो युक्तः । वदन्निति, वदितुमिति हेतौ शता । योऽविचारं बहु वदति सोऽप्यधरादिकम्पं [३]करोति ॥

 संततमन्तर्ज्वरमाह-

करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे।
रविमहो बहुपीतचरं चिरादनिशतापमिषादुदसृज्यत ॥ १७ ॥

 करेति ॥ सुतनोर्भैम्या विरहज्वरे वियोगजनिते ज्वरे करपदाननलोचनानि नामानि संज्ञा येषां तत्संज्ञैः शतदलैः कमलैः दिने बहु अपरिमितं पीतचरं पूर्वं पीतं रविमहः सूर्यतेजः अनिशतापमिषात्संततसंतापव्याजाच्चिराच्चिरकालमुदसृज्यत उत्सृज्यते स्म । करकमलमित्यादि[४] "


  1. 'अत्र समासोक्तिरूपकालंकारः' इति साहित्यविद्याधरी । 'उत्प्रेक्षा' इति जीवातुः।
  2. 'अत्र रूपकं विशेषश्च' इति साहित्यविद्याधरी ।
  3. 'अत्रार्थान्तरन्यासोत्प्रेक्षालंकारः' इति तिलकसाहित्यविद्याधर्यौ।
  4. 'अत्रातिशयोक्तिसमासोक्तयपह्नुत्यलंकारः' इति तिलकसाहित्यविद्याधर्यौ ।