पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। १५९ श्लोकपञ्चकेन तापमाह- कुसुमचापजतापसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् । अहरहर्वहदभ्यधिकाधिकां रविरुचिग्लपितस्य विधोर्विधाम॥६॥ कुसुमेति ॥ तन्मुखं रविरुच्या ग्लपितस्य विधोश्चन्द्रस्य अहरहः प्रत्यहमभ्यधिका- धिकां पूर्वदिनापेक्षया परदिने महतीं विधामवस्थां वहदैश्यत दृष्टम् । सर्वजनेनेत्यर्थः । किंभूतम्-सुकुमचापजः कामजस्तापः ज्वरस्तेन समाकुलं । म्लानमित्यर्थः । यतः-क- मलवत्कोमलं सुकुमारम् । विरहव्यथया सूर्यकिरणम्लानचन्द्रसदृशं जातमिति भावः । अहरहः । वीप्सायां द्विवचनम् । अत्यन्तसंयोगे द्वितीया । अभ्यधिकाया अधिका महती, 'यस्मादधिकम्-' इति ज्ञापकात्पञ्चमी, 'पञ्चमी' इति योगविभागात्समासः॥1 तरुणतातरणिद्युतिनिर्मितद्रढिम तत्कुचकुम्भयुगं तदा। अनलसंगतितापमुपैत्तु नो कुसुमचापकुलालविलासजम् ॥ ७ ॥ तरुणतेति ॥ तस्याः कुचावेव कुम्भयुगं तदा तस्मिन्समये अनलसंगत्या नलप्राप्त्य- भावेन वह्निसंगत्या तापं तज्जनितज्वरम्, औष्ण्यं च नो उपैतु न प्राप्नोतु, अपितु प्राप्नोतु । किंभूतम्-कुसुमचापः कामः स एव कुलालः कुम्भकारस्तस्य विलासः क्रीडा तया जातं विरचितं । तथा–प्रशान्तत्त्वात्तरुणता तारुण्यं तल्लक्षणया तरणिद्युत्या सूर्यदीप्त्या निर्मितः कृतो द्रढिमा दार्ढ्यं यस्य । कुलालोऽपि घटं कृत्वा आतपे शुष्कं कृत्वाग्नौ प्रक्षिपति । विलासजमिति तापविशेषणं वा। द्रढिमेत्यत्र 'वर्णदृढादिभ्यः ष्यञ्च' इतीम- निचि र ऋतो-' इति रः2॥ अधृत यद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदा। स्पृशति तत्कदनं कदलीतर्यदि मरुज्वलदूषरदूषितः॥ ४ ॥ अधृतेति ॥ तदा तस्मिन्समये मनसिजेन कामेन विरहोष्मणि आधिजनिते दाहे मज्जितं यत्तदूरुयुगमधृत जीवशेषमतिष्ठत् । कदलीतरुः तत्कदनं तस्योरुयुगस्य कदनं साम्यमवस्थां वा तर्हि स्पृशति प्राप्नोति तदूरुयुगसमानः स्यात् , यदि कदलीतरुः मरौ धन्वदेशे ज्वलद्वह्निदग्धमूषरं क्षारमृत्तिकास्थलं तेन दूषितः पीडितः स्यात् । अतिमृदोः कदलीतरोः वह्निदग्धे ऊषरे यदि स्थितिः स्यात्तर्हि तदूरुयुगदुःखं कदली- तरुणाप्यनुभूयेत । तदूरुयुगमतितरां संतप्तमभूदिति भावः । मनसिजेति 'सप्तम्यां ज- नेर्डः' । 'हलदन्तात्-' इति सप्तम्या अलुक् । स्पृशति । कालसामीप्ये लट् । 'स्यादूषः क्षारमृत्तिका' इत्यमरः । अस्त्यर्थे 'ऊषशुषिमुष्क-' इति रः । अधृत, 'धृङ् अवस्थाने'3 ॥ स्मरशराहतिनिर्मितसंज्वरं करयुगं हसति स्म दमस्वसुः । अनपिधानपततपनातपं तपनिपीतसरःसरसीरुहम् ॥ ९॥ १ 'अत्र निदर्शनालंकारः' इति तिलकसाहित्यविद्याधर्यौ । २ 'अत्रानुप्रासश्लेषरूपकालंकारः' इति साहित्यविद्यारी । ३ 'अत्रातिशयोक्तिरलंकारः' इति तिलकसाहित्यविद्याधर्यो ।