पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना। १७ नारायणन १५ महादेवविद्यावागीशः (आनन्दलहरीव्याख्यानिर्माता) १६ रामचन्द्रशेषः १७ वंशीवदनशर्मा १८ विद्याधरः १९ विद्यारण्ययोगी २० विश्वेश्वराचार्यः २१ श्रीदत्तः २२ श्रीनाथः २३ सदानन्दः एषां त्रयोविंशतिव्याख्यातॄणां मध्यात् विरचिता नैषधीयप्रकाशाख्या जिनराजेन सुखावबोधाख्या मल्लिनाथेन जीवात्वाख्या चारित्रवर्धनेन तिलकाख्या नरहरिणा दीपिकाख्या विद्याधरेण साहित्यविद्याधर्याख्या व्याख्या मया समधिगता । तासु च नारायणविरचितप्रकाशाख्यव्याख्याया एव बबर्थप्रदर्शक- त्वेन मुख्यत्वमङ्गीकृतम् । अन्यासु च यत्र विशेषो लब्धस्तासां टिप्पणं दत्तम् ॥ अस्य ग्रन्थस्य शोधनोपक्रमे ये महाशयाः पुस्तकानि प्रेषितवन्तस्तेषां प्रत्युपकारं कर्तुमक्षमः केवलं परोपकारशीलताप्रकाशनार्थ नामावली प्रकाश्यते- नैषधीयचरितमूलपुस्तकत्रयम् नैषधीयप्रकाशपुस्तकम् साहित्यविद्याधरीपुस्तकम् जयपुरराजगुरु श्रीनारायणभट्टपर्वणीकराः सुखावबोधापुस्तकम् जीवातुप्रथमसर्गस्य लिखितं पुस्तकम् तिलकाख्यव्याख्यापुस्तकम् जयपुरराजगुरुदाधीचचन्द्रेश्वरशर्माणः नरहरिकृतदीपिकापुस्तकम् महामहोपाध्यायपण्डितदुर्गाप्रसादशर्माणः जीवातुव्याख्यापुस्तकम् (मुद्रितम् ) जयपुरराजकीयपुस्तकालयाध्यक्षाः नैषधीयप्रकाशस्य पुस्तकान्तरम् ग्वालियरनगरतो भट्टविश्वनाथशर्माणः एवं महता परिश्रमेण सटीकमिदं महाकाव्यं संशोध्य निर्णयसागरयत्रालयाधिपतये 'जावजी दादाजी' इत्यभिख्यया प्रसिद्धाय श्रेष्ठिनेऽदाम् । तदत्र प्रमादस्य मनुष्या- "