पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। चतुर्थः सर्गः। अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशःकुसुमं धनुः। श्रुतिपथोपगतं सुमनस्तया तमिषुमाशु विधाय जिगाय ताम् ॥१॥ अथेति ॥ अथ हंसगमनानन्तरमात्मभूर्मदनः श्रुतिपथे कर्णमार्गे उपगतं प्राप्तमाक- र्णितं नलस्य गुणं सौन्दर्यादिरूपगुणं गुणं मौर्वी विधाय कृत्वा, तथा-कणितं सुरभि ख्यातं सुगन्धि च तस्य यशोलक्षणं कुसुमं धनुर्विधाय, तथा -श्रुतिपथोगतं श्रुतमाक- र्णकृष्टं च तमेव राजानं नलं सुमनस्तया मनीषितया कुसुमत्वेन च इषुं बाणं विधाय आशु तां भैमीं जिगाय जितवान् । अन्यस्यान्यत्वकरणं देवत्वेन संभाव्यते । हंसमुखात्तं श्रुत्वा झटिति कामपीडासहिता जातेति भावः । नले तदनुरागपोषार्थं विप्रलम्भवर्ण- नमनेन सर्गेण क्रियते । निर्वेदादयो विभावा आलस्यादयश्च विप्रलम्भश्रृङ्गारपोषार्थं यथायथमूहनीयाः। 'सुगन्धे च मनोज्ञे च सुरभि' इति विश्वः। जिगाय, 'सन्लिटोर्जैः' इति कुत्वम्1 ॥ यदतनुज्वरभाक्तनुते स्म सा प्रियकथासरसीरसमज्जनम् । सपदि तस्य चिरान्तरतापिनी परिणतिर्विषमा समपद्यत ॥२॥ यदतन्विति ॥ अतनुज्वरभाक्कामजनितसंतापभाक्सा भैमी प्रियकथा नलगोष्ट्यस्त- ल्लक्षणा सरसी तस्या विप्रलम्भाख्यशृङ्गाररूपे रसे मज्जनं तस्यां रसेन प्रीत्या मज्जनम् । सादरमाकर्णनमित्यर्थः। तनुते स्म चकार । तस्य मजनस्य सपदि परिणतिः परिपाकः विषमा दुःसहा समपद्यत जाता। किंभूता-चिरं चिरकालमान्तरं मनस्तापयत्ये- वंशीला । नलगुणाकर्णनजकामपीडाशान्त्यर्थं तत्कथया विरहपीडानाशो भविष्यतीति बुद्ध्या सादरं तत्कथायामाकर्णितायां प्रत्युत तस्या उद्दीपकत्वात्पूर्वापेक्षयातितमां सा कथा विरुद्धार्थजनिका जातेति भावः । योऽपि ज्वरी सरोजलस्नानं करोति तस्य विषमाख्यो ज्वरो भवति । ज्वरिणस्तदा स्नानमपि विषमत्वजनकं भवति, सरसीस्नानं तु सुतरामिति सरसीपदम् ॥ ध्रुवमधीतवतीयमधीरतां दयितदूतपतङ्गतवेगतः। स्थितिविरोधकरीं ब्द्यणुकोदरी तदुदितः स हि यो यदनन्तरः॥ ३॥ ध्रुवमिति ॥ व्ध्यणुकोदर्यतिकृशोदरी इयं भैमी दयितस्य नलस्य दूतो हंसस्तस्य प- १ 'स्मरेण सा जिता' इति पदेन 'विप्रलम्भस्योपक्षेपः कृतः। तत्र रसस्वरूपं तन्त्रान्तरोक्तं संक्षेपतो लिख्यते । तदुक्तं भरते-'विभावानुभावव्यभिचारिभावाद्रसनिष्पत्तिः । तत्र विभावा आलम्बनोद्दीपन- भेदेन ललनोद्यानादयः । अनुभावाः कटाक्षभुजाक्षेपादयः । सहकारिणश्च निर्वेदाद्यास्त्रयस्त्रिंशत् । एतैर्व्यक्तीकृतः स्थायिभावो रसः' इत्यभिधीयते ।