पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
नैषधीयचरिते

१५४ नैषधीयचरिते कामस्य शरभूतानि प्रसूनानि पुष्पाणि तेषां मधुभी रसैः, अथच माक्षिकैर्व्यामिश्रतां मेलनमाश्रयत्प्राप्नुवत् । तथा-असीमं निर्मर्यादम् । तथा-इष्टं सुस्वादु सुरभि ख्यातं सुगन्धि च । समत्वेन मधुमिश्रितं घृतं नितान्तं पीतं सत्संतापमोहौ जनयतीति, त- स्यास्तु नेत्याश्चर्यम् । यद्वा-एवंभूतं हैयङ्गवीनमास्वाद्यापि तृप्तिं न प्राप, तापं प्राप, मूर्छामपि प्राप । हंसमुखान्नलगुणाकर्णनेनानुरागबाहुल्यात्तापमोहौ तस्या जाताविति भावः । स्वादंस्वादमपीति योजना । असीममृष्टसुरभीत्येकं वा पदम् । 'तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्' इत्यमरः । 'हैयङ्गवीनं संज्ञायाम्' इति साधु । पुंगवगवीत्यत्र 'गोरतद्धित-' इति टचि टित्त्वान्ङीप् । स्वादंस्वादम् , आभीक्ष्ण्ये णमुल्1 ॥ तस्या दृ2शो नृ3पतिबन्धुमनुवजन्त्या. स्तं बाष्पवारि नचिरादवधीबभूव । पार्श्वेऽपि विप्रचकृषे यदनेन दृष्टे- रारादपि व्यवदधे न तु चित्तवृत्तेः ॥१३१ ॥ तस्या इति ॥ बाष्पवारि बाष्पाम्बु तं नृपतिबन्धुं नलसुहृदं हंसमनुव्रजन्यारतस्या दृशो भैमीदृष्टेर्नचिराच्छीघ्रमेव यद्यस्मादवधीबभूव अग्रे गन्तुं न तत्तस्मादनन हंसेन पार्ष्वेऽपि समीपे गच्छतापि भैमीदृष्टेः सकाशाद्विप्रचकृषे व्यवहितीभूतम् । समीपे वर्तमानोऽपि नलवियोगाद्धंसगमनाद्वा जातेनाश्रुणा द्रष्टुं न दत्त इत्यर्थः। तु पुनः आरादपि दूरादपि वर्तमानेन न चित्तवृत्तेर्न व्यवदधे व्यवहितीभूतम् । यद्यपि दूरं गतस्तथापि प्रियबन्धुत्वात्तस्या मनस्यवर्तिष्टैवेत्यर्थः । बन्धुमनुव्रजतो वारि अव- धिर्भवति । 'औदकान्तात्प्रियं पान्थमनुव्रजेत्' इति वचनात् । दृष्टेः पार्श्वेऽपीति वा । 'तदनेन3 इति पाठः । 'आरादूरसमीपयोः' इत्यमरः । विप्रचकृषे, अकर्मकत्वविवक्षया भावे लिट्4 ॥ अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयेन्पक्षतेः कम्पभेदै- राख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे। १ 'अत्रातिशयोक्तिसमासोक्तिविषमालंकारसंकरः । तत्रातिशयोक्तिर्भेदाभेदरूपा । समासोक्तिर्वैद्यकशास्त्र- व्यवहारसमारोपात् । विषमलक्षणं तु रुद्रटेनोक्तम्-'यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरन- र्थश्च भवेत्तदपरमभिधीयते विषमम्' इति साहित्यविद्याधरी । 'मधुमिश्रघृतस्य विषत्वात्तत्पाने तापा- भाव इति विरोधः । स च पूर्वोक्तपतङ्गपुंगवगवीहैयङ्गवीन इति रूपकोत्थापित इति संकरः' इति जीवातुः। २ 'दृशाधिपति' इति पाठमाश्रित्य 'अधिपतिबन्धुं प्रियमित्रं दृशा दृष्टया अनुव्रजन्त्याः' इति साहित्य- विद्याधर्या व्याख्यातम् । 'दृशोऽधिपति-' पाठमाश्रित्य 'अधिपतिबन्धुं नलमित्रमनुव्रजन्त्याः तस्या दृशो भैमीनेत्रस्य' इति सुखावबोधायां व्याख्यातम् । ३ “वियति' इति पाठमाश्रित्य 'गगने' इति ति- लके व्याख्यातम् । ४ 'अत्रातिशयोक्तिविरोधालंकारः । यदुक्तं रुद्रटे-'यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः' इति । वसन्ततिलकावृत्तम्' इति साहित्यवि.

द्याधरी । 'समीपस्थस्य विप्रकृष्टत्वं दूरस्थस्य संनिकृष्टत्वं चेति विरोधाभासः' इति जीवातुः ।