पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। कत्वाद्धनुष्ट्वुम् । स्तनपर्वतनिलयपत्रवल्लीनामपि तज्जनकत्वाद्गृहत्वम् । त्वयैव शस्त्रेण कामेन स जेतव्यो नान्यत्किंचित्तज्जयायेति त्वदाश्रयेण मदनस्तं पीडयतीत्यर्थः । अन्योऽपि जितोऽस्त्रादि त्यक्त्वाग्नौ देहं त्यक्त्वा शत्रु जेतुं पर्वते पर्णशालामधिष्टाय तपस्यति । अनुभ्राष्ट्रम्, सप्तम्यर्थे सादृश्ये वाव्ययीभावः । क्षिपेः स्वरितेत्त्वाङ्1॥ इत्यालपत्यथ पतत्त्रिणि तत्र भैमीं सख्यश्चिरात्तदनुसंधिपराः परीयुः । शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् ॥ १२९ ॥ इतीति ॥ तत्र तस्मिन्पतन्त्रिणि हंसे इति पूर्वोक्तमालपति वदति सति तदनुसंधौ भैम्यन्वेषणे पराः सख्यश्चिराद्बहुकालेन भैमीं परीयुः दशदिग्भ्यः समागतत्वात्परितो वेष्टयामासुः । अथानन्तरं स हंसोऽपि तुभ्यं शर्म सुखमस्तु, मां विसृज प्रेषयेत्युदी- योक्त्वा वेगाज्जवेन निषधाधिपराजधानीं नलनगरीं जगाम । नलपीडास्मरणाद्वेगग- मनम्2 ॥ चेतोजन्मशरमसूनमधुभिर्व्यामिश्रतामाश्रय- त्प्रेयोदूतपतङ्गपुंगवगवीहैयङ्गवीनं रसात् । स्वादंस्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सा तापं प्राप नितान्तमन्तरतुलामानर्छ मूर्छामपि ॥ १३०॥ चेत इति ॥ सा भैमी प्रेयसो नलस्य दूतो यः पतङ्गपुंगवो हंसस्तस्य गौर्वाणी सैव हैयङ्गवीनं ह्योगोदोहोद्भवं घृतं रसात्तत्प्रीतेः स्वादस्वादमास्वाद्यास्वाद्य । सादरमाक- र्ण्याकर्ण्येत्यर्थः। तृप्तिं प्राप्ता अन्तरन्तःकरणे नितान्तमतिशयितं तापं संतापमपि न प्राप । अतुलां निःसीमां मूर्छामपि न आनर्छ प्राप । किंभूतं हैयङ्गवीनम्-चेतोजन्मनः १ 'अत्र दमयन्तीबद्धकुसुमैर्भ्रूयुगेन च सह शरचयधनुषोरभेदप्रतिपादनाद्भेदेऽभेदरूपातिशयोक्तिसमासो- क्तिरूपकोपमालंकारसंसृष्टिः । ननु स्तनयोः शैलत्वनिरूपणमलंकारकृतां दूषणम् । यदुक्तं काव्यप्रकाशे–'उप- माया उपमानस्य जातिप्रमाणगतं न्यूनत्वमधिकता वा सादृश्यानुचितार्थत्वं दोषः । यथा-पातालमिव. नाभिः स्तनौ क्षितिधरोपमौ इति । सत्यमेतत् । किं त्वत्र निर्भिन्नपुरुषव्यापारवर्त्मने क्रियमाणमेतद्रूपं गुणातिशयता- मेवाश्रयति, न तु दोषताम् । तथा पर्णशालायते इत्युपमाया एतद्रूपकमङ्गम् । यदि चैतन्न क्रियते तदा कवेर- नौचित्यं स्यादधुना त्वलंकारातिशयप्रतिपादनादौचित्यमेव' इति साहित्यविद्याधरी । 'अत्र पूर्वार्धे शरचा- पादीनां पूर्वोक्तपुष्पादिविषयनिगरणेन तदभेदाध्यवसायानेदेऽभेदलक्षणातिशयोक्तिः । तत्पर्णशालायते इत्युपमा च । तया चोत्थापितेन त्वामाश्रयमिति रूपकेण संकीर्णा । व्यञ्जकाप्रयोगाद्गम्या । कामस्याश्रयाश्रयणोत्प्रेक्षेति संकरः' इति जीवातुः । २ 'अत्रोजोगुणः । यदुक्तं वामनेन-‘पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा' । 'अत्र वसन्ततिलकावृत्तम्' इति साहित्यविद्याधरी।