पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
नैषधीयचरिते

१५० नैषधीयचरिते कांसीकृतासीत्खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण । तुला च नाराचगता निजैव मिथोनुरागस्य समीकृतौ वाम१२२ कांसीति ॥ खलूत्प्रेक्षे । हे भैमि, वां तव नलस्य च मिथः परस्परं योनुरागस्तस्य समीकृतौ समीकरणे नलस्य त्वयि यावाननुरागः, तावानेव तव नलेऽनुराग इत्युभयोरनुरागस्य तुलनार्थं स्मरेणेन्दोश्चन्द्रस्य मण्डली कांसीकृता परिमेयवस्तुधारणार्थं कांस्यपात्रमिव कृतासीत् । किंभूता-संसक्ताः संबद्धा रश्मिप्रकराः किरणसमूहा रज्जुसमूहाश्च यस्याः सा । निजैव स्वीयैव नाराचलता बाणवल्ली तुला च तुलादण्डश्च कृता। कंसाय प(पा)त्रविशेषाय हितं कंसीयम् 'तस्मै हितम्' इति 'प्राक्क्रीताच्छः'। तस्य विकारः 'कंसीयपरशव्ययोः-' इति यञ् । छस्य लुक् कांस्यम्, अकांस्यं कांस्यं संपन्नं कांसीकृतम् । च्वौ 'क्यच्व्योश्च' इति हलउत्तरस्य आदेः परस्य' इति यकारमात्रस्य लोपः । अवर्णस्य 'अस्य च्वौ' इतीत्वम् । 'कंसीकृता' इति पाठे 'कंसो दैत्यान्तरेऽपि च । कांस्ये च कांस्यपात्रे च' इति विश्वः । 'किरणप्रग्रहौ रश्मी' इत्यमरः ॥ सत्त्वस्रुतस्वेदमधूत्थसान्द्रे तत्पाणिपद्मे मदनोत्सवेषु । लग्नोत्थितास्वत्कुचपत्रलेखास्तन्निर्गतास्तं प्रविशन्तु भूयः ॥१२३॥ सत्त्वेति ॥ हे भैमि, मदनोत्सवेषु तत्पाणिपद्मे नलहस्तकमले पूर्वं लग्नाः पश्चादुत्थिताः त्वत्कुचयोः पत्रलेखाः पत्रावलयः तन्निर्गता नलपाणिपद्मेनैव लिखिता भूयस्तमेव पाणिपद्मं प्रविशन्तु । किंभूते पाणिपद्म सत्त्वेन सत्त्वभावेन तो जनितः स्वेदो घर्मोदकं तल्लक्षणं मधूत्थं सिक्थकं तेन सान्द्रे निबिडे । रतोत्सववशात्पत्रावल्या मार्जनं भवत्वित्यर्थः । कारणे कार्यस्य लय उचित इति भावः । मधूत्थे यथालिखितमेतीति मधूत्थपदम् । पद्मशब्दः पुंलिङ्गेऽपि ततः तमिति युज्यते ॥ बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने मरुद्भिः। प्रसूनवृष्टिं पुनरुक्तमुक्तां प्रतीच्छतं भैमि युवां युवानौ ॥ १२४ ॥ बन्धाढ्येति ॥ हे भैमि, युवानौ तरुणौ युवां केलिवने क्रीडावने मरुद्भिर्वायुभिः पुनरुक्तं पुनःपुनर्मुक्तां त्यक्तां प्रसूनवृष्टिं प्रतीच्छतं गृह्णीतम् । किंभूतैर्मरुद्भिः-बन्धैः पङ्कजासनादिसुरतबन्धैराढ्यं विस्तृतं नानारतमनेकप्रकाररतं तदेव मल्लयुद्धं तेन प्रमोदितैः प्रकर्षेण परिमलं प्रापितैः । संभोगेन पुष्पेषु च्युतेषु पुनःपुनर्मोचनं संगच्छते । अथ च मल्लयुद्धहृष्टैर्देवैर्मुक्तां पुष्पवृष्टिं मल्लौ गृहीतः। 'मरुतौ पवनामरौ' इत्यमरः। युवतिश्च युवा च 'पुमान्स्त्रिया' इत्येकशेषः ॥ .. १ 'अत्र रूपकमलंकारः' इति साहित्यविद्याधरी । 'अत्रेन्दुमण्डलादौ कंसादिरूपणादेव स्मरस्थ कार्यकारणरूपसिद्धरेकदेशविवर्तिरूपकम्' इति जीवातुः। २ 'अत्राशीरलंकारः । रूपकं च' इति साहित्यविद्याधरी ।

३ 'अत्र रूपकप्रतीयमानोत्प्रेक्षाश्लेषालंकारसंसृष्टिः' इति साहित्यविद्याधरी।