पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। " प्स्यति तर्हि परं केवलं पृथौ विशाले तवैव स्तनद्वये अतिपीनत्वात् , नान्यस्या अल्पकुचत्वात् । पृथुशब्दो भाषितपुंस्कः ॥ एकः सुधांशुर्न कथंचन स्यातृप्तिक्षमस्वन्नयनद्वयस्य । त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥ ११९ ॥ एक इति ॥ एकोऽसहायः सुधांशुश्चन्द्रोऽतिविशालस्य त्वन्नयनद्वयस्य कथंचन केनापि प्रकारेण तृप्तिक्षमः संतर्पणसमर्थों यतो न स्यान्न भवेत् । तत्ततः कारणात् (स चन्द्रो) नलास्यलक्षणो यः शीतद्युतिश्चन्द्रस्तेन सद्वितीयः ससहायः सन् त्वल्लोचनयोस्तव नेत्रयोरासेचनको निर्मर्यादतृप्तिकार्यस्तु भवतु । चकोरतुल्यस्य त्वन्नेत्रद्वयस्यैकेन चन्द्रेण तृप्त्यभावाञ्चन्द्रद्वयेन भवितव्यम् । तत्र चन्द्रसहकारी नलास्यचन्द्रो भवत्वित्यभिप्रायः। तत्प्राप्त्यर्थं यत्नः कार्य इति भावः। 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शने' इत्यमरः॥ अहो तपःकल्पतरुर्नलीयस्त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः । त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥१२०॥ यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते । अङ्गम्रदिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव॥१२१॥ अहो इति ॥ यस्त इति ॥ (युग्मम् ।) नलीयो नलसंबन्धी तपोरूपः कल्पतरुः कल्पवृक्षः, अहो आश्चर्यरूपः । आश्चर्यरूपत्वमेव विशेषणैः प्रकटयति-कीदृशः कल्पतरु:- त्वत्पाणिजाग्राणि तव नखाग्राण्येव स्फुरन्ती प्रकाशमाना अङ्कुरश्रीरङ्कुरशोभा यस्य । खलु निश्चये । अङ्कुरानन्तरं त्वद्भ्रूयुग्मेव यस्य कल्पवृक्षस्य द्विपत्री पत्रद्वयम् । तवाधर ओष्ठ एव यस्य कलम्बो मध्यमाङ्कुरः, (नालमित्यर्थः ।) रज्यत्यारक्तो भवति । प्रथमाङ्कुरापेक्षया मध्यमाङ्कुरस्यातिरक्तत्वात् । यस्ते कराभ्यां नवो नूतनः पल्लवितः पल्लवयुक्तो विद्यते । मध्यमाङ्कुरापेक्षयातिरक्तत्वात्तव हस्तावेव यस्य पल्लवी जातौ । यः तव सितेन कोरकितः कलिकायुक्त आस्ते । पल्लवानन्तरं कोरका भवन्ति, स्मितस्य सितत्वाकोरकत्वम् । कोरकापेक्षया विकस्वराणां पुष्पाणां मृदुत्वाद्यस्तवाङ्गम्रदिम्ना शरीरमादेवेन पुष्पितः पुष्पयुक्तो विभाति । अतिमृदूनि तवाङ्गानि यस्य पुष्पस्थाने जातानि । यः तवैव स्तनश्रिया फलितः फलयुक्तः। तव स्तनावेव यस्य फलस्थाने जातौ । अतीवाश्चर्यजनकोऽयं नलीयस्तपःकल्पवृक्षः । एवंविधां त्वां प्राप्तुं तेनैव तपस्तप्तं नान्येनेति भावः । अन्यस्य तरोरेते पदार्थाः क्रमेण भवन्ति, एतस्य त्वेककालमेवेति अहोशब्द आश्चर्य द्योतयति । 'कद(ल)म्बः सायके नीपे नाले शाके कलम्ब्यपि' इति विश्वः । नलीयः, 'वा नामधेयस्य' इति वृद्धसंज्ञायां 'वृद्धाच्छः' । रज्यति 'कुषिरञ्जोः- इति कर्मकर्तरि श्यन्परस्मैपदे । पल्लवितः तारकादिः॥ १ 'अत्र सममलंकारः । यदुक्तम्-समं योग्यतया योगो यदि संभाविता क्वचित्' इति साहित्यविद्याधरी। २'अत्र रूपकमलंकारः' इति साहित्यविद्याधरी । ३ 'अत्र श्लोकद्वयेन तपसि दमयन्तीनखदिषु च कल्पतरुत्वावयवत्वरूपणात्सावयवरूपकम् । तथा अवयविकल्पतरोरवयवानां नखानुरादीनां च मिथः कार्य- कारणभूतानां भिन्नदेशत्वादसंगत्या मिश्रितमिति संकरः । 'कार्यकारणयोभिन्नदेशत्वे स्यादसंगतिः' इति लक्षणात् । इति जीवातुः।