पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
नैषधीयचरिते

नैषधीयचरिते च। अथच- सासम र्यो भूतो जातः । नलसदृशो गुणी, त्वं च गुणानुरागिणी । स्वत एव तस्मिन्ननुरक्तेति ज्ञात्वा कृतार्थों जातोऽस्मीति भावः॥ धन्यासि वैदर्भि गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥ ११६॥ धन्यासीति ॥  हे वैदर्भि भैमि, सा त्वं धन्या देवाधिकासि । यया त्वया उदारैरतिरमणीयैर्गुणैः सौन्दर्यादिभिः कृत्वा नैषधो धीरोदात्तो नलोऽपि समाकृष्यत स्ववशीकृतः। या ईदृशं धीरं वशीकरोति ततः परा का धन्येत्यर्थः । दृष्टान्तेन धन्यत्वं समर्थयते-खलु यस्माञ्चन्द्रिकाया इतः परा का स्तुतिः । यत् या गम्भीरमप्यब्धि समुद्रमुत्तरलीकरोति अतिशयेन चञ्चलीकरोति तद्वत्तद्वशीकरणमेव तव स्तुतिर्धन्यता वैदर्भी काव्यरीतिः गुणैः श्लेषादिभिरलंकारैः । अन्यदलविशालैर्दोरकैराकृध्यते॥ नलेन भायाः शशिना निशेव त्वया स भायान्निज्ञानादशशीव । पुनः पुनस्तद्युगयुग्विधाता योग्यामुपास्ते नु युरन्तरबारः ॥११७॥ नलेनेति ॥ हे भैमि, त्वं नलेन कृत्वा भायाः शोभस्व । केन केव-परिपूर्णेन शशिना निशेव । स नलस्त्वया कृत्वा भायाच्छोभताम् । कया क इव-निशया शशीव । उभयोः समागमे उभावपि व्यतिभातामित्यर्थः । नु उत्प्रेक्षे । पुनःपुनः प्रतिमासं तद्युगं चन्द्रनिशालक्षणं युग्मं युनक्ति युक् एवंविधो विधाता ब्रह्मा युवामुभावपि युयुक्षुर्योक्तुमिच्छुः सन् योग्यामभ्यासमुपास्ते करोति । शिल्पी रमणीयं वस्तु संघट्टयितुमभ्यासं करोति, अन्यथा चन्द्रनिशयोः पुनःपुनर्योजनं व्यर्थं स्यादित्यर्थापत्तिःप्रमाणम् । 'स्वभ्यासमास्ते' इति पाठे अभ्याससमृद्ध्यर्थम् । समृद्धावव्ययीभावे चतुर्थ्या अम्भावः । 'योग्याभ्यासार्कयोषितोः' इति विश्वः॥ स्तनद्वये तन्वि परं तवैव पृथौ यदि प्राप्स्यति नैषधस्य । अनल्पवैदग्ध्यविवर्धिनीनां पत्रावलीनां वलना समाप्तिम् ॥११८॥ स्तनद्वय इति ॥ हे तन्वि कृशाङ्गि, नैषधस्य नलस्यानल्पं बहुतरं वैदग्ध्यं कौशलं तस्य विवर्धिनीनां ज्ञापिकानां पत्रावलीनां पत्रवल्लीपतीनां वलना रचना समाप्तिं यदि प्रा- १ 'अत्रानियतदेशावयवं यमकमलंकारः' इति साहित्यविद्याधरी। २ अत्र प्रतीपमलंकारः । यदु- क्तम्-'आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥' इति साहित्यविद्याधरी । दृष्टान्तालंकारः । एतेन नलस्य समुद्रगाम्भीर्यं दमयन्त्याश्चन्द्रिकाया इव सौन्दर्यं व्यज्यते' इति जीवातुः। 'अत्रोपमोत्प्रेक्षालंकारः । आशीर्वादप्रतिपादनादाशीरलंकारोऽपि' इति साहित्यविद्याधरी । 'अत्र दमयन्तीनलयोरन्योन्यशोभाजननोक्तेरन्योन्यालंकारः । 'परस्परक्रियाजननमन्योन्यम्' इति लक्षणात् । उपमाद्वयानुप्राणित इति संकरः । तन्मूला चेयं विधातुः पुनःपुनर्निशाशशियोजनायां

दमयन्तीनलयोजनाभ्यासत्वोत्प्रेक्षेति' इति जीवातुः।