पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। १४७

नवमीमाह- भववियोगाच्छिदुरार्तिधारायमस्वसुर्मज्जति निःशरण्यः । मूर्छामयद्वीपमहान्ध्यपङ्के हा हा महीभृद्भटकुञ्जरोऽयम् ॥११३॥ भवदिति ॥ भवत्या वियोगेन विरहेण जनिता अच्छिदुरा संतता या आर्तः पीडा तस्या धारा प्रणालीपरम्परा सैव यमस्वसा यमुना तस्या मूर्छामयं मूर्छारूपं यद्वीपं जलमध्यावकाशस्तस्मिन्महान्ध्यलक्षणो महाज्ञानलक्षणः पङ्कः कर्दमस्तस्मिन् निःशरण्यो रक्षितरहितोऽयं नलः महीभृद्भटो राजश्रेष्ठ एव कुञ्जरो हस्ती निमज्जति ब्रुडति । हा हा खेदातिशये । अन्योऽपि कुञ्जरो हस्तिपकं विना नद्या द्वीपपङ्के बुडति । पङ्कमग्नो गजो नोद्धर्तुं शक्यत इति मूर्छावस्था । एवं नवावस्थासूचकाः श्लोकाः 'लिपिम्-' इत्यादयो यथायथमूह्याः। भवत्या वियोग इति 'सर्वनाम्नो वृत्ति- मात्रे-' इति पुंवत् । अच्छिदुरेति 'विदिभिदि-' इति कुरचं ॥ उक्तिविशेषेण दशमीमवस्थामाह- सव्यापसव्यात्यजनाद्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु । दशासु शेषा खलु तद्दशा या तया नभः पुष्प्यतु कोरकेण॥११४॥ सव्येति ॥ सव्यापसव्याभ्यां वामदक्षिणाभ्यां त्यजनं मोचनं तस्माद्विगुणैर्दशभिः पञ्चेषुबाणैः कामबाणैः पृथक्प्रत्येकमर्जितासु रचितासु दशास्वर्जितप्रायासु मध्ये शेषावशिष्टा या तद्दशा मृतिलक्षणा तया कोरकेण कलिकया नभो गगनं खलु निश्चितं पुष्यतु पुष्पितं भवतु । सा दशमी दशा खपुष्पतुल्या सर्वथा भवत्वित्यर्थः । एकेन मद- नबाणेनान्येषां दशावस्था भवन्ति, अस्य तु नव, दशमी नेति तस्या अवसरः । अस्याः कोरकत्वमनुद्भूतत्वात् । नले तर्हि सापि दशा भविष्यति सा मा भूत्। त्वत्प्राप्तिरेव भवत्विति भावः । दशाया अशुभत्वान्नामग्रहणानहत्वाद्यत्तच्छब्दप्रयोगः। द्विरुक्तशब्दो लक्षणया द्विगुणपर्यायः । शेषशब्दस्त्रिलिङ्गः, अभिधेयलिङ्गत्वात् । 'पुष्प विकसने' आशिषि लोट् । 'चक्षुरागः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः। निद्राछेदस्तनुता विषयनिवृत्तिनपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥' इति ॥ प्रकृतमाह- त्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृतास्मि तेन । आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः॥११५॥ त्वयीति॥ सराधेः कामजनितपीडातः सततं नियतमस्मितेन हास्यरहितेन भूमिभृता राज्ञा शा त्वयि विषयेऽहं प्रस्थापितोऽसि भैमी मदर्थं त्वया विज्ञापनीयेति । अहमिहागत्य गुणेषु लोभवत्या अनुरागिण्या भवत्यास्तव भावप्रतीत्या प्रेमपरिज्ञानेन सफल: 'कृतका- १ 'अत्र रूपकमलंकारः । आर्तिधारायास्तमोविकारत्वेनः रूपसाभ्यायमुना रूपणम्' इति जीवातुः। २ 'व्यसनात्' इति जीवातुसंमतः पाठः । ३ 'अत्रार्थान्तरं यथासंख्यमलंकारः' इति साहित्यविद्याधरी।