पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। क्रममुल्लङ्घय लाघवार्थमेकप्रयत्नेनैव चतुर्थीं षष्ठीं चावस्थामाह-

स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती।
आलिङ्गय या चुम्बति लोचने सा निद्राधुना न वहतेऽङ्गना वा॥१०८॥

स्थितस्येति ॥ रात्रौ शय्यामधिशय्य स्थितस्य तस्य मनो मोहे वैचित्र्ये , स्नेहविशेषे च मोहनं मोहो मदनयुद्धं तत्र वा निमज्जयन्ती तद्वशं कुर्वती सती या आलिङ्ग्याङ्गानि श्लथयित्वा लोचने चुम्बति तत्र संबद्धा भवति । अथ च लतावेष्टिताद्यालिङ्गना कृत्वा या नेत्रचुम्बनं करोति । सा एवंविधा निद्राङ्गना वा त्वदृते त्वां विनाधुना इदानीं न विद्यते । त्वद्विरहात्तस्य न निद्रा, त(त्व)द्व्यतिरेकेणैवंविधाङ्गना वा न । अङ्गनापि न रोचत इति भावः । श्लेषप्रयत्नेन निद्राच्छेदविषयनिवृत्तिलक्षणे अवस्थे प्रोक्ते । क्रमोल्लङ्घनं दोषाय नेति शेयम् । शय्याम्, 'अधिशीङ्-' इति कर्मत्वम् । त्वत्, 'अन्यारात्-' इति पञ्चमी॥ पञ्चमीमाह-

स्मरेण निस्तक्ष्य वृथैव बाणैावण्यशेषां कृशतामनायि ।
अनङ्गतामप्ययमाप्यमानः स्पर्धा न सार्धं विजहाति तेन॥११०॥

 स्मरेणेति ॥ स नलः स्मरेण बाणैर्निस्तक्ष्य निर्भिद्य लावण्यं सौन्दर्यमेव शेषं यस्यास्तां कृशतां वृथैवानायि नीतः प्रापितः। लावण्यं स्थितं, शरीरं क्षीणम् । यतः- अनङ्गतामतिकृशाङ्गतामङ्गरहिततां मदनत्वं नीयमानोऽप्ययं तेन मदनेन सह स्पर्धा साम्यं न जहाति त्यजति । रूपसाम्यात्क्रुद्धेन कामेनातिकृशत्वं नीतः। ततश्च ईषदङ्गोऽनङ्गः। न समासः। नञ् ईषदर्थे । अनुदरा कन्येतिवत् । कृतेऽपि कृशत्वे सुतरां साम्यमेवाभूदिति भावः । अत एव लावण्यशेषामित्युक्तम् । तथैव' इति पाठे लावण्यशेषामेव कृशतां तथा अनायि यथानङ्गतामाप्यमानोऽपि तेन सह स्पर्धा न त्यजतीति व्याख्या ॥ सप्तमीमाह- त्वत्प्रापाकात्रस्यति नैनसोऽपि त्वय्येष दास्येऽपि न लज्जते यत् । स्मरेण बाणैरतितक्ष्य तीक्ष्णैर्मूनः स्वभावोऽपि कियान्किमस्य ११० त्वदिति ॥ एष नलस्त्वां प्रापयति दापयति तत्त्वत्प्रापकम् , तस्माद् एनसोऽपि पापादपि 'राक्षसो युद्धहरणात्' इत्यादिच्छलादिरूपान्न त्रस्यति न बिभेति। यच्च त्वयि विषये दास्येऽपि न लज्जते, ततो हेतोः स्मरेण तीक्ष्णैर्बाणैरतितक्ष्य अतिशयेनास्य शरीरं

१ 'अत्र विकल्पालंकारः'। यदुक्तमलंकारसर्वस्वे,–'तुल्यबलविरोधे विकल्पः' इति साहित्यविद्याधरी । 'अत्र निद्राङ्गनयोः प्रस्तुतयोरेवालिङ्गनाक्षिचुम्बनादिधर्मसाम्यादौपम्येप्रतीतेः केवलप्रकृतगोचरा तुल्ययोगितालंकारः । 'प्रस्तुताप्रस्तुतानां च केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता॥' इति लक्षणात्' इति जीवातुः। २ ‘अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्यारी। 'अत्र विशेषोक्तिरलंकारः 'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिरलंकृतिः' इति लक्षणात्' इति जीवातुः।