पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। तामेव पुनराह

पातुदृशालेख्यमयीं नृपस्य त्वामादरादस्तनिमीलयास्ते ।
ममेदमित्यश्रुणि नेत्रवृत्तेः प्रीतेर्निमेषच्छिदया विवादः ॥ १०४॥

 पातुरिति ॥ आलेख्यमयीं चित्रलिखितां त्वामादरात् अस्तनिमीलया निर्निमेषया दृशा पातुः सादरमवलोकयितुर्नृपस्याश्रुणि विषये नेत्रवृत्तेर्नयनवर्तिन्याः प्रीतेरनुरा- गस्य निमेषस्य छिदया विच्छेदेन सह ममेदमिति इदमश्रु मज्जन्यम् , इदं मज्जन्यमिति अहमहमिकया विवादः कलह आस्ते भवति । अनुरागवशानिमेषाभावो भवति । नयनानुरागजन्यं, निमेषच्छिदाजन्यमेतदश्रु इति लोकः संदिग्ध इति भावः । निमेषच्छिदयेत्यत्राप्रधाने तृतीयया मुख्या नयनप्रीतिरिति द्योतितम् । भिदादिपाठात् छिदा साधुः॥ द्वितीयामाह-

त्वं हृद्गता भैमि बहिर्गतापि प्राणायिता नासिकयास्यगत्या।
न चित्रमाकामति तत्र चित्रमेतन्मनो यद्भवदेकवृति ॥१०५॥

 त्वमिति ॥ हे भैमि, बहिर्गतापि बहिःप्रदेशे वर्तमानापि अनुरागवशादन्तःकरणे विद्यमाना त्वं कया गत्या केन प्रकारेणास्य नलस्य प्राणायिता जीवायिता नासि, अपितु सर्वप्रकारेण जीववत्प्रियासि । अथ च–बहिर्गता त्वं नासिकया आस्यगत्या मुखगत्यापि हृद्गता मनोरमा । अत एव प्राणायिता प्राणवत्प्रिया। तव नासिकामुखसौन्दर्यं तेन हृदये धारितेत्यर्थः । बहिर्गतापि हृद्गतेति द्वादशाङ्गुलपर्यन्तं बहिर्गत्वा पुनरन्तः प्रविशन्ति प्राणाख्यां च लभन्ते तथा त्वमपि । भवती त्वमेका केवला वृत्तिर्जीवनोपायो यस्य एवं(भूतम्) एतन्मनो नलान्तःकरणं चित्रमालेख्यं यन्नाकामति- तच्चित्रमिव भवति, तत्र विषये आश्चर्यम् । विरहव्यथया चञ्चलेन भवितव्यं, तञ्च यदा चित्रमिव निर्व्यापारं जातं तत्राश्चर्यमित्यर्थः । त्वदायत्तत्वात्त्वदन्यत्किमपि तस्य चित्ते न लगतीति त्वं प्राणवत्प्रियेत्यर्थः । चित्रं कर्तृं, एतन्मनः कर्म यत्र स्वाधीनं करोति तत्र चित्रम्, अपितु नेति काकुः । यतस्त्वदेकवृत्ति इति वा । भवदेकवृत्ति एतन्मनो यच्चित्रं नाक्रामति अर्थान्नावलोकयति तत्र चित्रम् । चित्रं हि सर्वैरवलोक्यते, अनेन नेत्याश्चर्यमिति वा । एतन्मनो यच्चित्रमाक्रामत्यवलोकयति तत्र चित्रं न । यद्यपि विरहिणश्चित्रं दुःखदं तथाप्याश्चर्यं न । यतश्चित्रं भवदेकवृत्ति भवत्या एव एका वृत्तिरवस्थानं यत्रैवंविधम् । यत्र त्वमेव लिखितासि तदेव चित्रमवलोकयतीत्यत्र किमाश्चर्यमिति वा । 'चित्तम्' इति पाठे व्याख्या-तत्र प्राणीभवने लोकस्य चित्तमाश्चर्यं न गच्छति । यस्माद् एतन्मनस्त्वदेकवृत्ति त्वदासक्तम् । यस्य यत्रासक्तिस्तत्तस्य प्राणवद्भवति । अत्र किमाश्चर्यम् । आक्रामतीति 'वा भ्राश-' इति श्यन्विकल्पः । भवत्या एका वृत्तिर्यत्र 'सर्वनाम्नो वृत्तिमात्रे-' इति भवतीशब्दस्य पुंवत् ॥ १ 'अत्र नयनप्रीतिः स्मरदशा प्रतिपादिता' इति साहित्यविद्याधरी। २ 'अत्र विषयनिवृत्तिः संकल्पश्च कामदशे प्रतिपादिते । अत्र विरोधाभासश्लेषोपमालंकारसंसृष्टिः' इति साहित्यविद्याधरी।