पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। अलं विलङ्घ्य प्रियविज्ञयाच्ञां कृत्वापि वाम्यं विविधं विधेये । यशःपयादाश्रवतापदोत्थात्खलु स्खलित्वास्तखलोक्तिखेलात॥७४॥ अलमिति ॥ हे प्रियविज्ञ प्रियश्चासौ विज्ञश्च विषु पक्षिषु मध्ये ज्ञ पक्षिश्रेष्ठ इति वा हंस, याच्ञां मत्कृतां प्रार्थनां विलङ्घ्यातिक्रम्य अलं नातिक्रमणीया । प्रियस्य सतो विज्ञस्य नलस्य याच्ञां विलङ्घालमिति वा । तथा-विधेये करणीयवस्तुविषये विविधं वाम्यं वक्रत्वमपि कृत्वा अलम् । न करणीयमित्यर्थः । अपिः तुल्यकालत्वद्योतनार्थः । उभयमपि न कार्यमित्यर्थः। तथा-आश्रवतापदं दातृत्वलक्षणं पदमुत्तमस्थानं तस्मादुत्थ उत्पन्नः तस्माद्यशःपथात्कीर्तिमार्गात्स्खलित्वा पतित्वापि खलु पूर्यतां पतनमपि न कार्यम् । अपिशब्दोऽत्रापि योज्यः । किंभूतात्-अस्तः क्षिप्तः खलोक्तीनां खलदुर्वचनानां खेलो विलासो यस्मिन् । हंसतुल्य उपकारी अन्यो नास्तीति दुर्जना अपि यथा तव कीर्तिं वर्णयन्ति तथा कुर्वित्यर्थः । आश्रवता वचनकारिता, प्रतिश्रुतकारित्वमिति वा । पन्था हि पदोत्थो भवति । विज्ञ इति 'इगुपध-' इति कः । विलङ्घ्य कृत्वा, स्खलित्वा, इति 'अलंखल्वोः प्रतिषेधयोः-' इति क्त्वाप्रत्ययः । आशृणोतीत्याश्रवः पचादिषु । 'यजयाच-' इति नङि याच्ञा ॥ सापहास ब्रूते- स्वजीवमप्यार्तमुदे ददभ्द्यस्तव त्रपा नेदृशबद्धमुष्टैः । मह्यं मदीयान्यदसूनदित्सोर्धर्मः कराद्भ्रश्यति कीर्तिधौतः॥७५॥ स्वेति ॥ हे हंस, मदीयानसून्नललक्षणान्प्राणान्मह्यमेवादित्सोतुमनिच्छोः ईदृशो ऽभिनवश्चासौ बद्धमुष्टिश्च कृपणशिरोमणिस्तस्य तव आर्तानां दीनानां मुदे हर्षाय स्वजीवमपि स्वप्राणमपि ददद्भ्यो जीमूतवाहनादिभ्यः सकाशाद्यद्यस्मात्रपा लज्जा न भवति तस्मात्तव करात्कीर्तिधौतो यशोधवलो धर्मो भ्रश्यति । अधुनैव विनश्यति । यशो नश्यति धर्मोपीत्यर्थः । अन्यदीयं गृहीत्वा तस्मै यो न ददाति तस्य स्वजीवदातृभ्यः सकाशाल्लजा कथं स्यात्, यदि स्यात्तर्हि दद्यादेव । तस्मादुभयमपि तव नष्टम् । ते तु जीवमपि ददुः, त्वं तु तदीयमेव धनं न ददासि, किंपुनः स्वीयजीवमिति । तस्माद्येन धर्मो यशश्च भवति तदेव कुर्विति भावः। बद्धमुष्टेः करात्पततीति विरोधाभासः नेति । काकुर्वा । 'कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि किमदेयं महात्मनाम् ॥' इतिवचनं जीवदाने प्रमाणम् । 'न लोका-' इति निषेधादसूनिति द्वितीया । धौतः धावेर्निष्ठायामूठि वृद्धिः ॥ १ ' अत्रानुप्रासः' इति साहित्यविद्याधरी । इह न पादादौ खल्वादयः' इति निषेधस्योद्वेजकत्वाभिप्रायत्वात् नञर्थस्य खलुशब्दस्यानुद्वेजकत्वात् नञ्वदेव पादादौ प्रयोगो न दूष्यत इत्यनुसंधेयम्' इति जीवातुः। २ 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी ।