पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
नैषधीयचरिते

१३० नैषधीयचरित त्वच्चेतस इति ॥ तुः पुनरर्थे । अहं बालभावात्वच्चेतसः तव मनसः स्थैर्यविपर्ययं चाञ्चल्यं संभाव्य संचिन्त्य पुनस्तमज्ञ एव तवाभिप्रायमजानान एव भाव्यस्मि । 'तदज्ञः ' इति पाठे श्लोकद्वयस्यार्थस्याज्ञ इति वा । एवकार इवार्थो वा । ज्ञातोऽप्यर्थः किमज्ञात इत्युच्यत इत्याशङ्क्याह-हि यस्माद्बालत्वादेव लोलशीले चञ्चलस्वभावे बालाहृदि बालाहृदयलक्षणे लक्ष्ये विषये स्मरोऽपि दरं ईषद्पराद्धेषुश्च्युतसायकः स्याद्भवेदिति संभाव्यते । कामस्यापि मनोभवत्वात्तेनापि यज्ज्ञातुं न शक्यते तत्रान्यस्य का कथा । बालानां चित्तचाञ्चल्यान्नलाभिलाषनिश्चयाभावादज्ञ एव जातोऽस्मीति भावः । अतो निश्चयार्थं पुनर्वादयामीत्यर्थः । अथ च-बालानामल्पकामत्वात् कामबाणस्तथा न पीडयति यथा तरुणीनामिति तस्य च्युतसायकत्वं युक्तम् । अन्योऽपि धानुष्कश्चञ्चले लक्ष्ये च्युतसायको भवति । भाव्यस्मि भवामीति 'धातुसंबन्धे प्रत्ययाः' इति प्रत्ययाः । अपिः संभावनायाम् ॥ अथ निश्चयाभावे मादृशेन राजा बोधयितुं शक्यो नेत्याह- महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्थमेव । प्रयोजनं सांशयिकं प्रतीद्ऱुक्पृथग्जनेनेव स मद्विधेन ॥ ७१ ॥ महीति ॥ स नैषधेन्दुर्निषधदेशोद्भवजनानामिन्दुराह्ह्लादकः खलु । यस्मान्मह्यां महेन्द्र इव तत्तस्मान्मद्विधेन विश्वास्येन पृथग्जनेनेव नीचजनेनेव स नल इत्थमेव बालाहृदयचञ्चलत्वससर्थनप्रकारेण सांशयिकं संदेहचञ्चलमीदृक् नलाभिलाषलक्षणं प्रयोजनं कार्यं , इत्थमेवाविचार्यैव वा कथं बोधनीयः केन प्रकारेण ज्ञापनीयः । यथाविश्वास्येन मूर्खेण भयं त्यक्त्वा राज्ञोऽग्रेऽविचार्य यत्किचिदुच्यते तथा मयानिश्चितं वक्तुं न शक्यत इत्यर्थः । इत्थमेव बालया त्वयाहं यथा बोधितस्तथा मया स कथं बोध्य इति वा । 'पृथग्जनः स्मृतो नीचे मूर्खे च' इति विश्वः । मह्यां महेन्द्र इव 'सप्तमी' इति योगविभागात्समासः। षष्ठीसमासो वा । 'गतिबुद्धि-' इति कर्मत्वे बोधनीय इति कर्मणि कृत्यः॥ पूर्वोक्तमेव द्रढयति- पितुर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे । त्वदर्थमर्थित्वकृति प्रतीतिः कीदृङ्मयि स्यान्निषधेश्वरस्य ॥ ७२ ॥ पितुरिति ॥ पितुर्नियोगेन आज्ञया निजेच्छया वा स्वेच्छया वा त्वं यद्यन्यं नलव्यतिरिक्तं युवानं तरुणं वृणीषे तर्हि त्वदर्थं तुभ्यं त्वया भैमी परिणेतव्या इति अर्थित्वकृति याच्ञाकारिणि मयि निषधेश्वरस्य नलस्य कीदृक्कीदृशी प्रतीतिविश्वासः स्यात् प्रतारकोऽयमिति तस्य बुद्धिः स्यात् । निश्चयं विना तस्याने वक्तुं न युक्तमित्यर्थः । यद्यर्थे यदिवा इति । कीदृग्वा इति वा वाशब्दो योजनीयः। अर्थित्वकृति । कृञ्ः क्विपि तुक॥ १ 'अत्रार्थान्तरन्यासोऽलंकारः' इति साहित्यविद्याधरी । २ 'अत्रोपमाकाव्यलिङ्गमलंकारः' इति

साहित्यविद्याधरी।