पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः १२७ ते प्राप्यते । वा निश्चये । चन्द्रधारणदृष्टान्तेन यत्तस्यार्थस्य दुष्प्रापत्वमियत्किम् । इयद्गौरवं किमर्थम् । तन्न कार्यमित्यर्थः । अथ च-परचित्तगोचरो विषयः सुज्ञेन शायते, इयद्गोपनं तस्य किमर्थम् । स मया ज्ञात इत्यर्थः । एकमार्गे स्थितं वस्तु सर्वेरपि ज्ञायते । एतदृष्टान्तेन द्रढयति-किलेति श्रुतौ । यत्र ब्रह्मणि चेतसोऽप्यन्धकारः ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः यन्मनोगोचरो न भवति तदपि स्वप्रकाशं ब्रह्म जिह्मेतरैरनलसैरवाप्यं प्राप्यं प्राप्यत इत्यर्थः। किं पुनर्मनोगोचरः । ततश्च सूक्ष्मदर्शिना मया तवाभिप्रायो ज्ञात एव । त्वया किमिति गोप्यत इति भावः । 'वर्तन्येकपदीति च', 'जिह्मस्तु कुटिलेऽलसे' इत्यमरः। एकपदी 'संख्यासुपूर्वस्य' इत्यन्तलोपे 'पादोऽन्यतरस्याम्' इति ङीपि पदादेशः । अवाप्यम् 'शकि लिङ् च' इति कृत्यः॥ मदुक्तमजानन्नेवाभिमानेन ज्ञातमिति वदसीत्याशङ्कायामाह- ईशाणिमैश्वर्यविवर्तमध्ये लोकेशलोकेशयलोकमध्ये । तिर्यञ्चमप्यञ्च मृषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम् ॥ ६४॥ ईशेति ॥ ईशस्येश्वरस्याष्टविधैश्वर्यमध्येऽणिमलक्षणं यदैश्वर्यं तस्य विवर्तस्तात्त्विकोऽन्यथाभावस्तत्त्वतोऽणिमैश्वर्यमेव जातो मध्यो यस्यास्तत्संबुद्धिः, हे कृशोदरि, त्वं लोकेशो ब्रह्मा तस्य लोकेशया लोकवर्तिनो लोका जनास्तेषां मध्येऽज्ञं मूर्खं तिर्यञ्चमपि मामेवंभूतं अञ्च जानीहि, पूजय वा । किंभूतं माम्-मृषा असत्यं तस्यानभिज्ञा अज्ञातारः सत्यवादिनो रसज्ञाः सहृदयास्तेषामुभयेषां भावस्तत्ता सत्यवादिता, सहृदयता च तद्विषये उपज्ञा आद्यं ज्ञानं यस्य एवंविधश्चासौ समज्ञश्च । समशब्दस्य सर्वशब्दपर्यायत्वात्सर्वज्ञस्तमेवंविधस्वरूपं मां अज्ञमलीकभाषिणं, अहृदयं मूर्खं च यथा तवेच्छा तथा जानीहीत्यर्थः। सत्यवादिनां सहृदयानां सर्वज्ञानां च मध्ये प्रथमगणनीयोऽहं मिथ्याभाष्यहृदयो मूर्खश्च कथं स्यामिति भावः। मृषानभिज्ञा सत्यवादिनी रसज्ञा जिह्वा येषां तेषां भावः सत्यवादिता, उपज्ञायत इत्युपज्ञा आद्यं ज्ञानं मृषानभिज्ञरसज्ञाता या उपज्ञा मृषानभिज्ञरसज्ञतोपज्ञं, तेन समज्ञा कीर्तिर्यस्य । एवं सत्यवादिता प्रथमं कस्मादुत्पन्नेति जिज्ञासायां तस्याः प्रथमोत्पत्तिकारणत्वेनाहमेव ख्यात इत्येवंरूपमज्ञं मां जानीहीति वा । लोकेशय इति अधिकरणे शेतेः' इत्यचि शयवासवासिष्व-' इति सप्तम्या अलुक । रसज्ञतोपज्ञ इत्यत्र (पक्षे) 'आतश्चोपसर्गे' इत्यङि 'उपज्ञोपक्रम-' इत्यादिना नपुंसकत्वम् । समैः सर्वैर्ज्ञायत इति समज्ञा कीर्तिः 'घाञर्थे कविधानम् इति कः॥ सत्यवादित्वमेव प्रकटयति- मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः । ह्रियेव ताभ्यश्चलतीयमद्धापथान्न सत्सङ्गगुणेन नद्धा ॥ ६५ ॥ १ 'अत्र विरोधाभासोऽलंकारः' इति साहित्यविद्याधरी। 'अर्थापत्तिरलंकारः । कैमुत्येनार्थान्तरापतनमर्थापत्तिरिति वचनात्' इति जीवातुः । २ 'अत्रौजो गुणः । अत्रानुप्रासोऽलंकारः' इति साहित्यविद्याधरी। ३ 'संसर्गगुणेन' इति तिलकजीवातुसंमतः पाठः । ४ 'बद्धा' इत्यपि पाठः ।