पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
नैषधीयचरिते


स्वर्लोकमिति ॥ केलीषु नलसुखासिकावेलासु क्रीडासु वा तस्य नलस्य गानस्य गुणान्माधुर्यादिगुणान्निपीय सादमाकर्ण्य इतो भूलोकात्स्वर्लोकं प्रयातैर्गतैरस्माभिः कर्तृभिः गायन् (हाहासंज्ञको) हरिगायन इन्द्रगायको हाहेति यदशोचि हा हा कष्टं कष्टमिति यस्मान्निन्दितस्तेनैव कारणेन स हरिगायनो नाम्ना हाहा एवाभूत् । ततः परं हाहा इत्येव नामाभूत् । तेनैव नाम्नेति वा । 'हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौ- कसाम्' इत्यमरः । गायनः ‘ण्युट च' इति ण्युट्[१] ॥ शृण्वन्सदारस्तदुदारभावं हृष्यन्मुहुर्लोम पुलोमजायाः। पुण्येन नालोकत लो[२]कपालः प्रमोदबाष्पावृतनेत्रमालः ॥२८॥ शृण्वन्निति ॥ लोकपाल इन्द्रः पुलोमजाया इन्द्राण्या लोम तस्या एव पुण्येन नालोकत न पश्यति स्म । किं कुर्वन्-सदार इन्द्राणीसहितः तस्य नलस्योदारभावं वदान्यत्वं शृण्वन्नाकर्णयन्मुहुर्वारंवारं हृष्यन्सरोमाञ्चो भवन् । अत एव तद्रोम नाप- श्यदिति वा, मुहुर्वारंवारं हृष्यदिति रोमविशेषणं वा । तदनवलोकने हेतुगर्भं विशेष- णम् । तथा-प्रमोदबाष्पैरानन्दाश्रुभिरावृता व्याप्ता नेत्रमाला नेत्रपङ्क्तिर्यस्य सः।इन्द्रा- ण्या नलगुणाकर्णनोद्भूतं रोमाञ्चं चेदिन्द्रोऽद्रक्ष्यत् । अद्भुतौदार्यश्रवणरसावेशाद्रोमा- ञ्चोदयः, तद्दर्शने शक्रस्य शृङ्गाररसाधिक्यशङ्का स्यात्तर्हि असतीत्वात्त्यागमकरिष्यत् । तस्यौदार्यातिशयः सूचितः। अदर्शने हेतुद्वयम्-बाष्पैर्नेत्रनिमीलनत्वम् , तस्याः पुण्यं [३]च। सापीश्वरे शृण्वति तद्गुणोघान्प्रसह्य चेतो हरतोऽर्धशंभुः। अभूदपर्णाङ्गुलिरुद्धकर्णा कदा न कण्डूयनकैतवेन ॥ २९ ॥ सापीति ।। सापि पातिव्रत्येन प्रसिद्धाप्यपर्णा पार्वत्यपि कण्डूयनकैतवेन कण्डूयन- व्याजेनाङ्गुलिरुद्धकर्णाङ्गुलिनिरुद्धश्रवणा कदा नाभूत्, अपितु सर्वदैव जाता। कस्मि- न्सति-ईश्वरे शंभौ प्रसह्य बलात्कारेण चेतोऽन्तःकरणं हरतो वशीकुर्वतः तद्गुणौघान्न- लगुणसमूहाशृण्वति सादमाकर्णयति सति । किंभूता अपर्णा-अर्धं शरीराधशंभुर्य- स्याः। शंभोः शरीरार्धं वा। एकदेशिसमासो वा। शंभोरर्धशरीरत्वादन्यत्र गन्तुमश- क्यत्वात्तद्गुणश्रवणेन, सात्त्विकभावरोमाञ्चाद्युत्पत्तेः पातिव्रत्यभङ्गभीत्या च शंभुर्ज्ञास्य- तीति भीत्या च तद्गुणवर्णनप्रस्तावे कण्डूयनव्याजेन कर्णौ रुणद्धि स्मेत्यर्थः। अपर्णेत्यनेन शुष्कपर्णत्यागतपस्यया शंभुप्राप्त्यर्थं यतमानया तया पातिव्रत्यभङ्गभीत्या कर्णरोधः कृत इति [४]भावः॥ अलं सजन्धर्मविधौ विधाता रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्ग्या रसस्य तृप्तां न वेद तां वेदजडः स वक्राम ॥३०॥



 १ 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी । 'अत्र शोकनिमित्तासंबन्धेऽपि संबन्धादतिशयोक्तिः । तया च गन्धर्वातिशायि गानमस्य' इति वस्तु व्यज्यते' इति जीवातुः। २ 'नाकपालः' इति पाठस्तिलकजीवातुसुखावबोधासंमतः । ३ 'अत्र छेकानुप्रासभावोदयावलंकारौं' इति साहित्यविद्याधरी । ४ 'अत्रोत्पन्नाभिलाषस्य निगृहनाद् व्याजोक्तिरलंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः