पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
तृतीयः सर्गः।

यद्राज्यं तत्सामान्येनैवोपभुङ्क्ते इति समस्तराज्योपभोग एवाश्चर्यहेतुरिति। अनेकयज्ञकारी समुद्रावधिराज्यस्य चोपभोक्तेति भावः । यज्वेति 'सुयजोर्ङ्वनिप्' । राज्योपमयेति षष्ठीसमासः । भुङ्क्ते उपभोगस्य विवक्षितत्वात्स्त्रियं भुङ्क्ते इतिवत् 'भुजोऽनवने' इति तङ् । श्रिताः स्वयमाश्रिताः पालिता इति कर्मण्येव क्तप्रत्ययः समर्थनीयः। 'श्री- त्रियंश्छन्दोधीते' इति श्रोत्रियशब्दः साधुः । कृतश्रीरितीयङ्स्थानत्वान्नदीत्वाभा- वात्कबभावः[१]॥ दारिद्र्यदारिद्रविणोघवर्षैरमोघमेघ व्रतमर्थिसार्थे संतुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् ॥२५॥ दारिद्र्येति ॥ के नाम लोकाः तं लोकनाथं राजानं नलमिष्टानि हितानि धनादीनि न नाथन्ति न याचन्ते, अपितु सर्वेऽपि । याच्याकरणे हेतुगर्भाणि विशेषणानि । किंभू- तम्-बहुत्वेन दारिद्र्यदारिभिर्दरिद्रत्वनाशकैर्द्रविणौघवर्षैर्धनसमूहवर्षैः कृत्वा अर्थि- सार्थे याचकसमूहेऽमोघं सफलं मेघवतं यस्य । जलदा यथा जलवलोकं सुखयन्ति तथा धनवर्षैरयम् । तथा–संतुष्टमवदानैः संतोषयुक्तं सहजोत्साहयुक्तं वा । तथा- इष्टदेवं इष्टा यजिकर्मीकृता देवा येन । इष्टाः प्रिया देवा यस्येति वा । इष्टो हितश्चासौ देवो राजा च इष्टदेवतारूपं वा । नामेति शिरश्चालने । दारिद्र्यनाशसमर्थधनदानशील- त्वात्सर्वोऽपि तं याचत इति भावः। अथ च–प्रसन्नं देवं ब्रह्माणम्, इन्द्रं वा धना- दीनि सर्वेऽपि याचन्ते । नाथिर्याच्ञार्थो द्विकर्मकः । आशिष्येव तङो नियमादत्र परस्मैपदम्[२] ॥ अस्मत्किल श्रोत्रसुधां विधाय रम्भा चिरं भामतुलां नलस्य । तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धानलकूबरं सा ॥ २६ ॥ अस्मदिति ॥ सा रमणीयरूपा रम्भा देवाङ्गना नलस्य अतुलां लोकत्रयेऽप्यनुपमां भां कान्तिमस्मत्सकाशाच्चिरं श्रोत्रसुधां कर्णामृतं विधाय कृत्वा बहुकालं सादरमाकर्ण्य तत्र नले अनुरक्ता सती तं नलमनाप्यकिल अप्राप्यैव तस्य नलस्य नानो गन्धा- ल्लेशात् , न त्वनुरागात् । नलकूबरं कुबेरपुत्रं भेजे प्राप । नलकूबरनामापेक्षया तस्य ले- शत्वम् । गन्धात्संबन्धादिति वा व्याख्येयम् । अन्योऽप्यभीष्टवस्तुप्राप्त्यभावात्केनचिद्गुणेन तत्सदृशमन्यद्वस्तु भजते । गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' इति विश्वः। अनाप्येत्यत्राङ्प्रश्लेषादनञ्पूर्वत्वाल्यप्[३] ॥ स्वर्लोकमस्माभिरितः प्रयातैः केलीषु तहानगुणान्निपीय। हा हेति गायन्यदशोचि तेन नाम्नैव हाहा हरिगायनोऽभूत् ॥२७॥



 १ 'अत्र छेकानुप्रासः। उपमोत्प्रेक्षाव्यतिरेकालंकारसंकरः' इति साहित्यविद्याधरी। विरोधाभासोऽलंकारः' इति जीवातुः। २ 'अत्रानुप्रासोपमे' इति साहित्यविद्याधरी । ३ 'अत्र छेकानुप्रासोत्प्रेक्षा' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः