पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
नैषधीयचरिते

तस्या नलेऽनुरागं दृष्ट्वा तद्वर्णनं प्रक्रमते- क्रियेत चेत्साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया। या स्वौजसां साधयितुं विलासैस्तावक्षमानामपदं बहु स्यात॥२३॥ क्रियेतेति ॥ के के साधव इति साधूनां विभक्त्या विभागेन चिन्ता विचारणा चेद्यदि क्रियेत तदा तर्हि सा नललक्षणा व्यक्तिः प्रथमा आधाभिधेया वाच्या । साधूनां मध्ये नल एव प्रथमो गण्य इति भावः। सा का-या स्वौजसां स्वकीयतेजसां विलासैर्विभ- वैर्बहु असंख्याकमनामपदं नमनं नामः स न विद्यते येषां तेऽनामाः शत्रवस्तेषां राजश- त्रूणां स्थानं तावत्साकल्येन साधयितुं स्वाधीनं कर्तुं क्षमा समर्था भवेत् । तावदतिमहत्- क्षमानाम पृथ्वीसंज्ञकं पदं साधयितुमेकैव बहुरनेकधा स्यादिति सविसर्गः पाठ इति वा। एतेन पृथ्वीमण्डले स एव राजा नान्य इति सूचितमिति व्याख्यानम् । अथ च- चेद्यदि साधु सम्यग्विभक्तीनां सुप्तिङां चिन्ता विचारणा क्रियेत तदा सा व्यक्तिःप्रथ- माभिधेया प्रथमेत्यभिधेयं संज्ञा यस्याः सा । सा का-या स्वौजसामेकवचनद्विवचन- बहुवचनसंज्ञकानां प्रत्ययानां विलासैर्यथासंभवं विसर्जनीयलोपामादेशशीभावादिरूपैः प्रकारविशेषैः बहु नाम प्रातिपदिकं पदं सुबन्तं कर्तुं निष्पादयितुं तावदतितरां क्षमा समर्था स्याद्भवति सा व्यक्तिः प्रथमाभिधेया व्यज्यतेऽनया प्रातिपदिकार्थ इति व्यक्तिविभक्तिःप्रथमेत्यभिधेया । अथच-साधुविभक्तीनां चिन्ता विचारो यदि क्रि- येत तर्ह्येकवचनादिसंज्ञकानां स्वौजसां मध्ये या प्रथमा व्यक्तिर्विभक्तिः सुलक्षणा सैवाभिधेयेति यावत् । प्रयोगयोग्यत्वाय 'एकवचनमुत्सर्गतः करिष्यते' इति न्यायेन सुविभक्तिरेव विधेया भवतीति [१]भावः॥ राजा स यज्वा विबुधवजत्रा कृत्वाध्वराज्योपमयैव राज्यम् । भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्वं त्वहो शेषमशेषमन्त्यम् ॥२४॥ राजेति ॥ श्रितश्रोत्रियसादाश्रितच्छन्दोध्याय्यधीनदेयीकृता श्रीलक्ष्मीर्येन सः य- ज्वा विधिनेष्टवान्स राजा नलोऽध्वरे यज्ञे यदाज्यं घृतं देवसमूहाधीनदेयीकृतं तस्य घृतस्योपमयैव दृष्टान्तेनैवोपभोगेनैव राज्यं विबुधानां विदुषां व्रजः समूहस्तदायत्तं देयं कृत्वा संपाद्य श्लोकोक्तक्रमापेक्षया पूर्वमध्वराज्यं यज्ञशेषाज्यं हुतावशिष्टमन्त्य राज्यम- शेषं सकलमपि भुङ्क्ते इत्यही आश्चर्यम् । यत् पूर्व भुज्यते तदशेषं शेषं न भवति, यत्प- श्चात्तच्छेषमिति लोकप्रसिद्धिः। अत्र तु विपरीतमिति । अहो आश्चर्यम् । देवसमूहा- धीनदेयीकृतस्य यज्ञघृतस्योपभोगं यथा करोति तथा विद्वज्जनायत्तीकृतस्य राज्यस्या- पीति भावः । यज्ञदक्षिणास्तु श्रोत्रियेभ्य एव दत्ताः राज्यभोगस्तु विद्वज्जनैः सहेति विबुधवजत्रा इत्यनेन श्रोत्रियसाहित्यस्य न पौनरुत्याशङ्का । 'जन्मना ब्राह्मणो ज्ञेयः संस्काराद्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥' इति मुख्यत्वाच्च पृथगुपादानं श्रोत्रियस्य । अथ च सर्वजनोपभोग्यत्वादध्वनि मार्गे एव



 १'अत्राभिधायाः प्रकृतार्थमात्रनियन्त्रितत्वाल्लक्षणायाश्चानुपपत्त्यभावेनाभावादप्रकृतार्थप्रतीतिर्ध्वनिरेव' इति जीवातुः। 'सामान्येन प्रथमायाः सर्वत्र विहितत्वात्समासोक्तिरलंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः