पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
तृतीयः सर्गः।

स्रक्वन्दनादिभोगयोग्यं भाग्यं शुभं कर्म विना । यो भूमिस्थोऽपि स्वर्गभोगं भुङ्क्ते तस्यैव मादृशा वश्या इति भावः । एवंविधः कश्चन, न सर्व इत्यर्थः। अथ च-विगतो रेफो (यस्य) विरस्तस्य, (रस्य स्थाने) लस्योदयो यस्मिंस्तस्य नलस्य । यद्वा-नरशब्दस्य विशेषेण रस्थाने लोदयो यस्य । उभयथापि नलस्येत्यर्थः। ततश्च नलस्य तदेकं स्वर्भो- गभाग्यं विना मादृशं धर्तुं कोऽपि न शक्नोति । नलस्य स्वर्भोगभागधेयस्यैव मादृशा वश्या इति भावः। स चासौ नरश्च तन्नर इति वा । बन्धाय 'तुमर्थात्-' इति चतुर्थी । दिव्ये दिगादित्वाद्यत् । एकम् 'पृथग्विना-' इति द्वितीया । विरेति 'प्रादिभ्यो धातु- जस्य-' इति समासः॥ नरस्य स्वर्भोगभाग्यमेव कुत इत्यत आह- इष्टेन पूर्तेन नलस्य वश्याः स्वभोगमत्रापि सृजन्त्यमर्त्त्याः । महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति ॥ २१॥ इष्टेनेति ॥ इष्टेन यागादिना पूर्तेन कूपादिना, अपेक्षिताधिकदक्षिणादिना वा वश्या अमर्त्या देवा अत्रापि भूलोकेऽपि मनुष्यजन्मन्यपि नलस्य स्वर्भोगं सृजन्ति । यागबा- हुल्यं तडागबाहुल्यं च नलं विना केनापि न कृतमिति तस्यैव वश्या भूत्वा स्वर्भोगं सृ- जन्ति । देहान्तरदेशान्तरभावि स्वर्गफलं कथमत्रैवेत्याशङ्क्याह-अचेतना अपि मही- रुहा वृक्षा दोहदसेकशक्तेर्धूपादिदोहदसामर्थ्यागर्भाधानौषधिनिक्षेपसामर्थ्याद्वा उदक- सेकसामर्थ्याच्चाकालिकमन्यकालभवनयोग्यं कोरकं कलिकामुद्भिरन्ति कालान्तरे प्रक- टयन्ति । तथा-वृक्षा अपीष्टेन दोहदेन पूर्तेन खातेनालवालेन नलाधीनाः सन्तो दोह- दसेकसामर्थ्यादाकालिकं कोरकमुगिरन्तीत्यपि ज्ञेयम् । अन्योऽपीष्टो वश्यः सन्स्वर्ग- फलतुल्यं वस्तु ददाति । 'अथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि' इत्यमरः । वश्यः 'वशं गतः' इति यत् । महीरुहाः 'इगुपध-' इति कः । अकाले भवः अध्यात्मादित्वाट्ठक् । पूर्तेन 'न ध्याख्या-'इति नत्वनिषेधः[१]॥ स्वर्भोगमेव वक्ति- सुवर्णशैलादवतीर्य तूर्णं स्वर्वाहिनीवारिकणावकीर्णैः । तं वीजयामः स्मरकेलिकाले पक्षैर्नृपं चामरबद्धसख्यैः ॥ २२ ॥ सुवर्णेति ॥ वयं स्मरकेलिकाले सुरतक्रीडासमये पक्षैस्तं नृपं नलं वीजयामः । तस्य सुरतखेदापनयनं कुर्मः । किं कृत्वा-सुवर्णशैलान्मेरोः तूर्णं झटिति अवतीर्य आगत्य । किंभूतैः पक्षैः-स्वर्वाहिनी मन्दाकिनी तस्या वारिकणा जलकणास्तैरवकीर्णैर्व्याप्तैः । तथा-गौरत्वाचामरैः सह बद्धं कृतं सख्यं सादृश्यं यैः । चामरतुल्यैरित्यर्थः । अथ -अमरैर्देवैः सह बद्धं सख्यं यैः । देवैरपि नलस्य स्वर्भोगः सृज्यते, अस्मत्पक्षैरपीति तैः सह सख्यम् । अस्मिन्पक्षे देवा वयं च वीजयामः । तूर्णमित्यनेन सेवाधर्मः सूचितः। 'ज्वरत्वर-' इत्यूठे[२]



 १ 'अत्र दृष्टान्तोऽलंकारः । यद्रुद्रट--'अर्थविशेषः पूर्वं यादृग्न्यस्तो विवक्षितेतरयोः । तादृशमन्यंन्यस्येद्यत्र पुनः सोऽत्र दृष्टान्तः ॥' इति साहित्यविद्याधरी । २ - 'अत्रोपमालंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः