पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
नैषदीयचरिते

पदम् । रूपऋद्धिम् 'ऋत्यकः' इति प्रकृतिभावः । निदानात् 'आख्यातोपयोगे' इत्य- पादानत्वम्[१] ॥ ननु यदि भवान्ब्रह्मणो वाहनं तर्हि भुवं प्रत्यागमने च को हेतुरत आह- धातुर्नियोगादिह नैषधीयं लीलासरः सेवितुमागतेषु । हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः ॥ १८ ॥ धातुरिति ॥ हे भैमि, क्रीडास्थलं पृष्टस्य धातुब्रह्मणो नियोगादाज्ञया इह भूलोके नै- षधीयं नलसंबन्धि लीलासरः क्रीडासरः सेवितुमालोडयितुमागतेषु प्राप्तेषु हैमेषु सौं- वर्णेषु मध्ये एकोऽहमेव भूलोकविलोकने उत्क उत्कण्ठितः सन् भ्रमामि विचरामि । भूलोकं पश्यन् प्रसङ्गादत्रागतोऽहमित्यर्थः। मत्सदृशा बहवो नलसरसि क्रीडन्तीत्यर्थः। हैमेषु विकारे अनुदात्तादित्वादअन्तत्वान्न प्रकृतिभावः।हंसेषु निर्धारणे सप्तमी । 'उत्क उन्मनाः' इति निपातात्साधुः॥ 'धार्यः कथंकारम्-' इति यदुक्तं तत्र भूपर्यटनेन श्रान्तस्य तव धारणे का प्रयास इत्याशङ्कायामाह- विधेः कदाचिद्भमणीविलासे श्रमातुरेभ्यः स्वमहतरेभ्यः । स्कन्धस्य विश्रान्तिमदां तदादि श्राम्यामि नाविश्रमविश्वगोऽपि ॥ विधेरिति ॥ हे भैमि, अहं विधेर्ब्रह्मणः कदाचित्कस्मिंश्चित्समये भ्रमणीविलासे बा- ह्यलीलायां श्रमातुरेभ्यः परिश्रान्तेभ्यः स्वमहत्तरेभ्यो निजपूर्वजेभ्यो हंसेभ्यः स्कन्धस्य विश्रान्तिमदाम् । तेषु श्रान्तेषु तद्भारमहमग्रहीषम् । किंभूतोऽहम्-अविश्रमं क्वचिद्वि- श्रान्तिमकृत्वैव विश्वगोऽपि सर्वलोकगाम्यपि । तदादि तत्प्रभृति न श्राम्यामि न श्रान्तो भवामि । निजपूर्वजप्रसादाच्छ्रमरहितो विश्वं भ्रमामीति भावः । भ्रमणी इति 'कृत्यल्युटः-' इति ल्युट् । श्रास्यामि 'शमामष्टानाम्-' इति दीर्घः । 'डप्रकरणेऽन्यत्रापि गमोंर्डो दृश्यते' इति विश्वग इत्यत्र [२]डः॥ ननु पक्षिणः सर्वत्र बन्धनसंभवात्त्वं कथं न बद्ध इत्याशङ्क्या नलप्रसङ्गेनोत्तरं प्रयच्छति- बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषः स्यात् । एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥ २० ॥ बन्धायेति ॥ कश्चित्पाशादिः वागुरादिः दिव्ये दिवि भवे मादृशि मत्सदृशे तिरश्चि पक्षिणि विषयेबंधनाय बन्धाय बन्धनाय मादृशं बद्धुमासादितपौरुषःप्राप्तसामर्थ्यो न स्या- द्भवेत्। दिव्यत्वादेवाहं केनचिद्बद्धुं न शक्य इत्यर्थः। परमयं विशेषः-विरलोदयस्य वि-. रलजन्मनःक्वचित्कस्यचिन्नरस्य पुरुषस्य तत्प्रसिद्धमेकमसाधारणं स्वर्भोगभाग्यं स्वर्लोके



 १ 'अत्रार्थान्तरन्यासानुप्रासालंकारौ' इति साहित्यविद्याधरी । 'सामान्येन विशेषसमर्थनरूपोऽर्था- न्तरन्यासः' इति जीवातुः । २ 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः