पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
नैषधीयचारते


अये कियद्यावदुपैषि दूरं व्यर्थं परिश्राम्यसि वा किमित्थम् । उदेति ते भीरपि किं नु बाले विलोकयन्त्या न घना वनावलीः ॥ अये इति । अये भैमि, कियद्दूरं यावदुपैष्यागमिष्यसि । वा समुच्चये । त्वमित्थमनेन प्रकारेण शीघ्रगमनादिना व्यर्थ निष्फलं किं वा परिश्राम्यसि कथय । किमाक्षेपे । वये इति व्यर्थं पक्ष्यर्थं वा । श्रमो न कार्य इत्यर्थः । किमर्थमिति पाठेऽर्थशब्दः प्रयोजनवा- ची। ततश्च किं प्रयोजनमित्यर्थः । यातीति याः, तद्वद्यावच्छीघ्रगामिपुरुषवत्कियद्दूरमु- पैष्यसि व्यर्थमेव पक्ष्यर्थमित्थं किं परिश्राम्यसि । काका प्रश्ने । व्यर्थं कियद्दूरमुपैषीति वा । नु बाले भैमि, परिश्रमं तद्वैयर्थ्य चेन्न गणयसि तर्हि घना निबिडा वनावलीवन- पङ्क्तीर्विलोकन्त्याः पश्यन्त्यास्ते तव भीरपि भयमपि किं नोदेति नोत्पद्यते । बालाया हि घनवनपङ्क्तिदर्शनेन भयेनोदेतव्यं तदपि तव नोदेतीत्याश्चर्यम्। 'नबाले' इति पाठे बवयो- रभेदानवा आलयः सख्यो यस्यास्तत्संबुद्धिः। नूतनत्वात्तास्त्वां बालां वनसमीपे परि- त्यज्य गतास्तथा परिणता नेति भावः । यावदुपैषीति 'यावत्पुरा-' इति भविष्यति लट् । द्वितीयपक्षे येति 'क्विप् च' इति क्विप्, तदन्ताद्वतिः। उपैषीति वर्तमानसामीप्ये भविष्यति लटू । एतेरेजादित्वात्पूर्वेण सह 'एत्येधत्यूठ्-' इति [१]वृद्धिः ॥ वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः । आलीव पश्य प्रतिषेधतीयं कपोतहुंकारगिरा वनाली ॥ १४ ॥ वृथेति ॥ इयं वनाली वनपङ्क्तिः आलीव सखीव मरुता वायुना ललन्तो विलसन्तः पल्लवास्तल्लक्षणाः पाणयस्तेषां कम्पनैः कृत्वा, तथा-कपोतानां पारावतानां हुंकारगीः हुं हुं इति शब्दस्तया च अपथे मद्वारणरूपेऽस्थानेऽमार्गे च वृथा निष्फलं पदं व्यव- सायं चरणन्यासं चार्पयन्तीं कुर्वतीं त्वां प्रतिषेधति पश्य । वाक्यार्थः (दृशेः) कर्म। सख्यपि करकम्पनैर्हुँकारेण च सखीं निषेधति । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिव- स्तुषु' इत्यमरः । अपथे ‘पथो विभाषा' इति अप्रत्यये 'अपथं नपुंसकम्' इति साधुः। 'हुंकारकिरा' इति पाठे किरतीति किरा 'इगुपधज्ञाप्रीकिरः कः' इत्यनेन के कान्तेन पूर्वस्य कर्मषष्ठीसमास इति सिद्धा[२]न्तः ॥ अस्थानत्वमेवाह- धार्यः कथंकारमहं भवत्या वियविहारी वसुधैकगत्या । अहो शिशुवं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥१५॥ धार्य इति ॥ हे भैमि, वसुधायामेवैकासाधारणा गतिः संचरणं यस्याः, वसुधैवैका गतिर्यस्या इति वा भवत्या त्वया वियत्यन्तरिक्षे विहारो गमनं यस्य एवंभूतोऽहं कथं- कारं कथमिव धार्यः धर्तुं शक्यः, अपि (तु) न कथंचित् । अहो इत्याश्चर्ये संबोधने



 १ 'अत्रानुप्रासोलंकारः' इति साहित्यविद्याधरी । २ 'अत्रोपमारूपकालंकारौ' इति साहित्य- विद्याधरी । अत एव पल्लवपाणी इत्यादौ रूपकाश्रयणम् । तत्संकीर्णा च वनाल्यालीव इत्युषमा' इति जीवातुः

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः