नितरां हितमिष्टं हंसं परमात्मानमादरयुक्तेनाशयेनाभिप्रायेण ग्रहीतुकामा ज्ञातुकामा
सती निश्चलतां प्राप्नोति । पक्षिवारणजातिः। 'हंसः पक्षिणि विष्णौ च'। स्विकेति
'भ[१]स्त्रैषा’- इति वेत्त्वम् ।
ग्रहीतुकामा 'ग्रहोऽलिटि-' इतीटो दीर्घः, 'तुं काम-' इति मलोपः। अदरिणेति ।
अत इन्नन्तस्य नसमासः[२]॥
तामिङ्गितैरप्यनुमाय मायामयं न भैम्या वियदुत्पपात ।
तत्पाणिमात्मोपरिपातुकं तु मोघं वितेने प्लुतिलाघवेन ॥५॥
तामिति ॥ अयं हंसस्तां न्युन्जगमनादिरूपां भैम्या मायां स्वधारणकपटवृत्तिमिङ्गि-
ष्टाभिरनुमाय ज्ञात्वापि वियदाकाशं नोत्पपात उड्डयनविषयं न चकार । किंतु-
आत्मोपरिपातुकं स्वस्योपरि पतनशीलं तत्पाणिं भैमीहस्तं अदूरमुत्प्लवनलघुतया मोघं
निष्फलं वितेने कृतवान् ॥ प्रतार्य इयं विजनप्रदेशे नेतव्येति बुद्धया नोत्पपात । उत्प-
तने हि धारणार्थं प्रयत्नमकृत्वैवागमिष्यतीति दौत्यासिद्धिः स्यादिति भावः । अनुमाय
'न ल्यपि' इति निषेधान्नेत्त्वम् । पातुकमिति 'लषपत-' इति शील उकञ् ।उपरिपातुक-
मिति 'सह सुपा' इति समासं कृत्वा पश्चात्पूर्वेण षष्ठीसमासः। अन्यथा 'पूरणगुण-'
इति षष्ठीसमासनिषेधप्रसङ्गात् । पातुकशब्दस्योकप्रत्ययान्तत्वेऽप्युपरिपातुकशब्दस्य
तदन्तत्वाभावात् 'न लोका-' इति षष्ठीनिषेधाभावः[३] ॥
व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः ।
परस्परामर्पितहस्ततालं तत्कालमालीभिरहस्यतालम् ॥ ६ ॥
व्यर्थीति ॥ आलीभिः सखीभिस्तत्कालं तस्मिन्काले परस्परामन्योन्यमर्पितो दत्तः
हस्तेषु तालस्तालिका यस्यां क्रियायां यथा भवति तथा अलमत्यर्थमहस्यत हसितम् ।
किं कृत्वा-अस्या भैम्या व्यवसायं पक्षिधारणोद्यम तथा प्लुतिलाघवप्रकारेण तेन पत्रर-
थेन पक्षिणा हंसेन व्यर्थीकृतं निष्फलीकृतमवसाय ज्ञात्वा । परस्पराम् 'कर्मव्यतिहारे
सर्वनाम्नो द्वे भवतः' इति द्वित्वम् । बहुलवचनात्समासवद्भावाभावे पूर्वपदस्य प्रथमैक-
वचनान्तत्वम् । कस्कादित्वात्सः। 'स्त्रीनपुंसकयोरुत्तरपदस्य वाम्भावो वक्तव्यः' इत्यु-
त्तरपदस्याम्भावः । तत्कालम् 'कालाध्वनोः-' इति द्वितीया ॥
१ 'स्विकायाम्-स्वीयायाम् । 'प्रत्ययस्थात्कात्पूर्वस्यात:-' इतीकारः' इति जीवातुः। 'स्वशब्दस्य ग्रहणं संज्ञोपसर्जनार्थम् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री। संज्ञोपसर्जनभूतस्तु क- प्रत्ययान्तत्वाद्भवत्युदाहरणम् । तेन सर्वनाम्नः स्वशब्दस्यायं विधिन भवेत् । अत एंव एतेन 'मुनेर्मनोवृत्तिरिव स्विकायाम्' इति श्रीहर्षश्लोके 'भस्त्रैषा-' इति वैकल्पिकमित्त्वं व्याचक्षाणा उपेक्ष्या इति श्रीमनोरमायाम्' इति सुखावबोधा । 'स्वाशब्दादत्यन्तस्वार्थिके कनि त्वातः(त्) स्थानिकत्वाक्षतर्वैकल्पिकेत्त्वमपि सुसाध्वेव । नह्यकच् अत्यन्तस्वार्थिकस्याप्यवाद इति तु शब्दरत्नम् । एतेन वस्तुतो 'हंसं तनौ-' इति श्लोके स्विका- यामिति प्रयोगोऽसाधुरेव । आत्मीयायां स्वशब्दस्य सर्वनामत्वात्स्याडागमप्रवृत्तेरिति नव्याः' इति तत्त्वबोधिनी परास्ता । अत्यन्तस्वार्थिककना व्यवाहितत्वादिति तु नव्यतराः । २ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी । ३ अत्र जातिरलंकारः' इति साहित्यविद्याधरी ।