पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
नैषधायचरिते


आकुञ्चिताभ्यामिति ॥ अथोपवनप्राद्द्यनन्तरं मण्डलकरणानन्तरं वा हंसः आकुञ्चिताभ्यां संकुचिताभ्यां पक्षतिभ्यां पक्षमूलाभ्यां नमोविभागादाकाशप्रदेशात्तरसा वेगेनावतीर्योत्तीर्य उपभैमि भैमीसमीपे पपातोपविशति स्म । किंभूतः-निवेशदेश उपवेशस्थाने आततौ विस्तारितौ धूतौ कम्पितौ च पक्षौ येन सः। पक्षिजा[१]तिः ॥


 आकस्मिक पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार ।
 द्रागन्यविन्यस्तहशः स तस्याः संभ्रान्तमन्तःकरणं चकार ॥२॥

आकस्मिक इति ॥ पक्षपुटेन पक्षद्वयेनाहतायाः क्षितेः सकाशादाकस्मिकोऽचिन्ति-. तोपनतोऽज्ञातहेतुको यः स्वनः शब्दस्तदा पतनसमये उच्चचारोद्भूत् । अकर्मकत्वान्न 'तङ् । स शब्दस्तस्या भैम्या अन्तःकरणं द्राक् झटिति संभ्रान्तं ससंभ्रमं चकार । आकस्मिकशब्दश्रवणात्सभया साश्चर्या च जातेति भावः । कीदृश्यास्तस्याः--\ अन्यविन्यस्तदृशः अन्यत्र स्वनदेशात्प्रदेशान्तरेषु विन्यस्ते चालिते दृशौ यया सा । कुतोऽयं शब्द उत्पन्न इतीतस्ततो विलोकितवतीति भावः[२]॥ नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि । प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ ३॥ नेत्राणीति ॥ वैदर्भसुतासखीनां भैमीसखीनां नेत्राणि निरुपाख्यं स्तोतुमशक्यं रूपं सौन्दर्यं यस्य तमेकं केवलं हंसं प्रापुः। सादरं पपुरित्यर्थः । किंभूतानि-विमुक्तस्त्यक्तः तेषां तेषां विषयाणां स्रक्चन्दननृत्यगीतादीनां ग्रहो ग्रहणं यैस्तानि । केषां कानि किमि- व-यतव्रतानां योगिनां चेतांसि ब्रह्मेव परमात्मस्वरूपमिव । तान्यपि विमुक्तास्तत्तद्विषयाः स्रक्चन्दनवनितादयस्तेषु ग्रहोऽङ्गीकारो यैस्तानि । निरुपाख्यरूपमीदृक्तया प्रतिपादयितुमशक्यरूपम् । योगिमनोविषयत्वाब्रह्मणः। एकमद्वितीयं च । वैदर्भः विदर्भाणां राजेति पूर्ववत् । तत्तदिति वीप्सायां द्विवचनादेकशेषाभावः[३]॥ हंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ४ ॥ हंसमिति ॥ असौ भैमी दरिणा सभयेन अदरिणा निर्भयेन वा शयेन पाणिना हंसं ग्रहीतुकामा धर्तुकामा सती यत्नास्विकायां स्वीयायां तनौ शरीरे निश्चलतां. जगाहे प्राप । चित्ते तु चञ्चलैवाभूत् । किंभूतम्-संनिहितं निकटम् , सता नलेन निहितं प्रेषितं वा । चरन्तं गच्छन्तम् । प्रयत्नपूर्वं निश्चलत्वम् । बालत्वाद्भयम् । धारणानिवेशा- द्भयाभावः । कस्य केव-मुनेर्मनोवृत्तिरिव । यथा मुनेर्योगिनो (मनोवृत्तिः) मानसो व्यापारः स्विकायां तनौ चरन्तं सद्भिर्मन्वादिभिर्नितरां हितं ध्यातं सद्भयो वा तेभ्य एव



१ 'अनुप्रासजात्यलंकारौ । अत्र सर्गे इन्द्रवज्रोपेन्द्रवज्राभ्यां लक्षणस्य निश्चितत्वादुपजातिच्छन्दो भवति' इति साहित्यविद्याधरी। २ 'अत्रापि जात्यलंकारः' इति साहित्यविद्याधरी । ३ 'अत्रोपमालंकारो भिन्नलिङ्गेऽपि निबध्यमानो न दोषमावहति । यदुक्तं दण्ड्यलंकारे-न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः