पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
तृतीयः सर्गः।

इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं
विपिनभुवि सखीभिः सार्धमाबद्धकेलिम[१]
॥ १०९ ॥

 अन्विति ॥ विपिनभुव्युपवनप्रदेशे सखीभिः सार्धं सह आबद्धकेलिं कृतक्रीडां भैमीं प्रेक्ष्य दृष्ट्वा पक्षिणो हंसस्य इति मतिर्बुद्धिरुदयासीदुत्पन्ना बभूव । इतीति किम्- सा प्रसिद्धा शचीन्द्राणी घृताचीमुखाभिघृताचीप्रभृतिभिः सहचरीभिरप्सरोभिः सखीभिः सह सार्धमुच्चैरतिशयेन इत्थमनेन प्रकारेण । भैमीवदित्यर्थः । नन्दनानन्दं नन्दनवने क्रीडां नानुभवति । एतत् क्रीडासुखं शच्या अपि नास्तीत्यर्थः। ततोऽपीयमधिकेति भावः । नानुभवति, अपि तु सैवेयं किं नन्दनानन्दमनुभवतीति वा । भैमीतत्सखीवनानां शचीघृताचीनन्दनैः साम्यम् । सहचरी । पचादौ चरडिति पाठाट्टित्त्वान्डीप् । प्रेक्ष्ये[२]ति भिन्नकर्तृकत्वात्कृत्वानुपपत्तौ स्थितस्येत्यध्याहार्यम् । केलिमिति हस्वः पाठः[३]

श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-
 काव्ये चारुणि नैषधीयचरिते सर्गो! निसर्गोज्ज्वलः ॥२॥

 श्रीहर्षमिति ॥ पूर्वार्धं पूर्ववत् । द्वयोः पूरणो द्वितीयः। द्वितीय एव द्वैतीयकः । 'तीयादीकस्वार्थे वक्तव्यः' । द्वितीयकस्य भावस्तत्ता तया मितो गणितः । निसर्गोज्ज्वलः स्वभावसुन्दरः। शेषं स्पष्टम् ॥ इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहात्मजनारायणकृते नैषधीय- प्रकाशे द्वितीयः सर्गः समाप्तिमगमत् ॥


तृतीयः सर्गः ।


अथ भैम्याः पुरस्तानलस्य गुणान्हंसमुखेन वर्णयितुं तृतीयसर्गमारभते-


 आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागातरसावतीर्य ।
 निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥१॥


 १ 'खेलाम्' इति तिलकजीवातुसंमतः पाठः । २ 'अत्र प्रेक्ष्य मतिः इति मननक्रियापेक्षया समान-कर्तृकत्वात् पूर्वकालिकत्वाच् प्रेक्ष्येति क्त्वानिर्देशोपपत्तिः । तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात् । प्राधान्यं त्वप्रयोजकम्' इति जीवातुः। ३ 'अत्र भ्रान्तिमानलंकारः। यदुक्तमलंकारसर्वस्वे- 'सादृश्याद्वस्त्वन्तरप्रतिपत्तिर्भ्रान्तिमान्' इति साहित्यविद्याधरी । ' अत्रोपमानानुपमेयस्याधिक्योक्तेर्व्यतिरेकालंकारः । 'भेदप्रधानसाधर्म्यमुपमानोपमेययोः। आधिक्यादल्पकथनाद्व्यतिरेकः स उच्यते ॥' इति लक्षणात्' इति जीवातुः

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः