पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः सर्गः

देशे आतिथ्यग्रहाय प्राघुणिकपूजाग्रहणाय । कटकप्राप्तय इति यावत् । तस्मातुत्सुकमुत्कण्ठितम् । सहजसौन्दर्येण विमानतुल्यमेघाधिरोहेणाकाशगमनेन निमेषाप्राप्तेश्च देवाङ्गनातुल्या जातेति भावः । कटकशिखरपदाभ्यामपि हर्म्याणामुच्चतरत्वं सूचितम् । इ: कामस्तस्मिन्रसादिति वा । 'प्रसितोत्सुकाभ्याम्-' इति तृतीयासप्तम्योः प्रसङ्गादातिथ्यग्रह एव अयः शुभविधिस्तत्रोत्सुकमिति वा व्याख्येयम् । कामिन्यपेक्षया शुभकर्मत्वम्। -व्योमान इति 'अनो बहुव्रीहेः' इति न ङीप् । 'स्त्रियां बहुष्वप्सरसः' इत्यमरः॥[१]

वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भै-
 र्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रै
 यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ॥१०५॥

 वैदर्भीति ॥ यस्या नगर्या गोग्रासस्य प्रदानलक्षणं व्रतं तस्य सुकृतं पुण्यं नीलत्वादंशुभिरेव दर्भैरविश्रान्तं अनवरतमुज्जृम्भते स वर्धते स्म । किंभूतैः- वैदर्भीकेलिशैले भैमीक्रीडापर्वते मरकताख्यरत्नविशेषनिर्मितशिखरादुत्थितैरूर्ध्वगामिभिः । तथा ब्रह्माण्डाघातेन ब्रह्माण्डसंघट्टनेन भग्नः स्यदजो वेगजो मदो गर्वो येषां तद्भावस्तत्ता तया ह्रिया लजयेव धृतं कृतमवाड्युखत्वं व्याधुट्टनं यैः । अत एव दिवि स्वर्ग उत्तानगाया उत्तानगामिन्याः कस्याः सुरसुरभेर्देवगव्याः आस्यदेशं मुखप्रदेशं गताग्रैः प्राप्ताग्रैः सर्वस्या अपि मुखं प्राप्ताग्रैः । अनेकमरकतरत्ननिर्मितो भैमीक्रीडाशैलः तत उत्थिताः किरणा यावद्ब्रह्माण्डं गताः तत उपरिगमनाभावानिवृत्ता देवगवीनामुत्तानगामित्वा- त्तन्मुखपतितात्तन्मुखपतिता दर्भतुल्या जाता इति भावः। 'उत्ताना वै देवगवा वहन्ति' इति श्रुतेः। अन्यो भग्नगर्यो लज्जयाधोमुखो भवति[२]

विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः
 शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् ।
विफलितजलसकप्रक्रियागौरवेण
 व्यरचि स हतचित्तस्तत्र भैमीवनेन ॥१०६॥

विध्विति ॥ तत्र नगर्यां भैमीवनेन स हंसो रमणीयत्वाद्धृतचित्त आकृष्टमना व्यरचिविरचितः। किंभूतेन तरूणामालवालैर्जलाधारैः कर्तृभिः विफलितं व्यर्थीकृतं जलसेकप्रक्रियागौरवं जलसेचनप्रकारभारो यस्य । किंभूतैः-शशिदृषद्भिश्चन्द्रकान्तैरुपक्लृप्तानि- निर्मितानि तैः । पुनः किंभूतैः-विधुकरपरिरम्भाञ्चन्द्रकिरणसंपर्कादात्मनः


  1. १ 'अत्रोत्प्रेक्षालंकारः । शार्दूलविक्रीडितं वृत्तम्' इति साहित्यविद्याधरी । 'अत्र नगरामराङ्गनयोभैदेऽपि अनिमेषमेघारोहणव्योमयानैः 'सैवेत्यभेदोक्तेरतिशयोक्तिभेदः' इति जीवातुः
  2. २ 'अत्र रूपकातिशयोक्त्यलंकारौ । स्रग्धरा नाम वृत्तम्' इति साहित्यविद्याधरी । 'अत्युत्तमालंकारोऽयमिति केचित् । अंशुदर्भाणां ब्रह्माण्डाघाताद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः