पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
द्वितीयः सर्गः

स्वरुचारुणया पताकया दिनमर्केण समीयुषोत्तृषः ।
लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदालयाः॥९९॥

 स्वरुचेति ॥ माणक्यसज्ञकै रत्नविशेषौनामता यदालया यस्या गृहाः स्वरुचा गृहकान्त्या अरुणया रक्तया पताकया कृत्वा निशि रात्रौ सुधाकरममृतनिधिं चन्द्रं बहुधानेकप्रकारं लिलिहुरस्पृशन् । पताकाया जिह्वात्वं सूच्यते । साप्यारक्ता भवति । किं- भूताः-दिनं समस्तदिवसे समीयुषा संगतेनार्केण सूर्येण कृत्वा उत्तृष उत्कृष्टा बहुतरा उद्गता वा तृट् पिपासा येषाम् । अन्योऽपि. सूर्यतेजसा तप्तो रात्रौ जिह्वया शीतलं मधुरं च वस्तु लेढि । अत्युच्चा इति भावः। दिनम् । अत्यन्तसंयोगे द्वितीया । 'उपेयिवान्-' इत्यत्र 'उपेत्यस्यातन्त्रत्वादनुपसर्गस्यान्योपसर्गस्य च भवति' इत्युक्तत्वात्समीयुषेति साधुः । बहुधेति 'बहुगण-' इति संख्यात्वात् 'संख्याया विधार्थे धा' इति धाप्रत्ययः। लिहेः स्वरितेत्त्वादकत्रभिप्राये क्रियाफले परस्मैपदम्[१]

लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् ।
श्रितमर्ककरैः पिपासु यन्नृपसद्मामलपद्मरागजम् ॥ १०० ॥

 लिलिहे इति ॥ पूर्वोक्त एवार्थों जिह्वापदप्रक्षेपेण वर्णितः । लिहेः स्वरितेत्त्वात्कर्त्रभिप्राये क्रियाफले तङ् । 'श्रितम्' इति पाठः । अर्ककरैः श्रितं सामीप्यादभिप्राप्तम् । स्थितमित्यपि क्वचित् । अर्ककरैः पिपासु स्थितम् । अर्ककरैस्तप्तमित्यर्थः[२]

अमृतधुतिलक्ष्म पीतया मिलितं यद्वलभीपताकया।
वलयायितशेषशायिनः सखितामादित पीतवाससः ॥१०१॥

 अमृतेति ॥ पीतया गौर्या यस्या नगर्या वलभीपताकया वलभीसंज्ञकगृहविशेषवैजयन्त्या मिलितं संबद्धममृतद्युतेश्चन्द्रस्य लक्ष्म लाञ्छनं कर्तृ वलयायितो मण्डलीभूतः शेषस्तस्मिशेते एवंशीलस्य पीतवाससो विष्णोः सखितां साम्यमादित प्राप । तत्सदृशं बभूवेत्यर्थः। कलङ्कमभितो वर्तमानस्य चन्द्रस्य शेषसाम्यम्, कलङ्कस्य श्रीकृष्णसाम्यम्, पीतपताकायाः पीतवस्त्रसाम्यम् । अत्युच्चत्वं व्यज्य[३]ते ॥


अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा-
 जिह्नब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना।
पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी
 यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥ १०२ ॥



१ 'अत्र समासोक्त्यतिशयोक्तितद्गुणोदात्तालंकारसंकरः' इति साहित्यविद्याधरी । 'अत्र गृहाणां संतापनिमित्तः सुधाकरलेहनात्मकशीतोपचार उत्प्रेक्ष्यते । सा चोक्ततद्गुणोत्थेति संकरः व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः । २ 'अत्रापि समासोक्त्यतिशयोक्तितद्गुणोदात्तालंकारसंकरः' इति साहित्यविद्याधरी । 'अलंकारश्च पूर्ववत् । जिह्वानिभया इत्युपमासंकरश्च विशेषः' इति जीवातुः । ३. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी।

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः