पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
द्वितीयः सर्गः

 रवीति ॥ यत्र नगर्यां हिमं शीतं रविकान्तमयेन सूर्यकान्तबद्धेन सेतुना पथा शिशिरे शिशिरतौ निशि रात्रावपि गच्छतां स्त्रीपुंसानां चरणौ पुरा नो दुनोति नादुनोत् । किंभूतेन सेतुना-सकलं च तदहश्च सकलाहं ज्वलनोऽग्निस्तेनाहित आरोपित ऊष्मा औष्ण्यं यस्य । सकलाहम् 'राजाहः-' इति टच् । अत्यन्तसंयोगे द्वितीया । दुनोति । पुरायोगे लट्[१]

विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् ।
शशिकान्तमयं तपागमे कलितीव्रस्तपति स्म नातपः ॥ ९४ ॥

 विध्विति ॥ आतपो यत्पथं यस्या नगर्याः पन्थानं तपागमे ग्रीष्मागमेऽपि न तपति स्म नोष्णीचकार । किंभूतम्-शशिकान्तमयं चन्द्रकान्तमयम् । अत एव विधुदीधि- तिजेन चन्द्रकिरणसंबन्धजेन पयसा जलेन नैषधशीलवन्नलस्वभाववच्छीतलम् । किं- भूतः-कलितीव्रः कलियुगवदतिदारुणः । दिने तप्तोऽपि चन्द्रोदये सवद्भिश्चन्द्रकान्तैरतिशीतलो जात इत्यर्थः। यत्पथम् । ऋगादित्वा[२] दः॥

परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः।
फणिभाषितभाष्यफक्कि[३] काविषमा कुण्डलनामवापिता ॥९५॥

परीति ॥या गनरी परिखावलयच्छलेन परिखामण्डलव्याजेन कुण्डलनां रेखावलयमवापिता सती परेषां शत्रूणां ग्रहणस्य स्वाधीनत्वस्य गोचरो विषयो न । शत्रुभिर्ग्रहीतुमशक्येत्यर्थः। किंभूता-फणिभाषिता शेषोक्ता भाष्यस्य फक्किका ग्रन्थस्तद्वद्विषमा दुर्ग्रहा शेषव्यतिरिक्तेन ज्ञातुमशक्या । यथा भाष्यफक्किका वररुचिना कुण्डलितेति प्रसिद्धिः। शेष एव तदर्थं जाना [४]ति ॥ मुखपाणिपदाक्षिण पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः । स्वयमादित यत्र भीमजा स्मरपूजाकुसुमस्रजः श्रियम् ॥९६ ॥ मुखेति ॥ यत्र नगर्या भीमजा स्मरस्य कामस्य पूजायाः कुसुमस्रजः (श्रियं) पुष्पमालायाः श्रियं शोभां स्वयमात्मनैवादित स्वीचकार । कामपूजापुष्पमालास्थाने सैव जातेत्यर्थः । यतः किंभूता-मुखपाणिपदाक्षिण आस्यकरचरणनयने पङ्कजैौर्गौररक्तनीलोत्पलैरचिता निर्मिता । प्राण्यङ्गत्वादेकवद्भावः । तथा-परेवन्येष्वङ्गेषु चम्पकैश्चम्पापुष्पै रचिता । मालाप्यनेकविधैः पुष्पैः क्रियते । वदनकरचरणनेत्रं कमलतुल्यम्,


१–'अत्र सेतोरुष्मासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । तत्रोत्तरस्याः पूर्वसापेक्षत्वात्संकरः' इति जीवातुः। 'अत्र विशेषोत्त्युदात्तालंकारौ' इति साहित्यविद्याधरी । २ 'अत्राप्युक्तनिमित्ता विशेषोक्तयुदात्तोपमालंकारसंसृष्टिः' इति साहित्यविद्याधरी । 'अत्र नगरपथस्येन्दूपलपयःसंबन्धोक्तेरतिशयोक्तिः तत्सापेक्षत्वादुपमयोः संकरः' इति जीवातुः । ३ 'विषमा इति भिन्नमेव पदम्' जीवातुसंमतम् । ४ 'अत्रापहृत्युपमालंकारौ' इति साहित्यविद्याधरी । 'अत्र नगर्याः कुण्डलिग्रन्थत्वेनोत्प्रेक्षा । सा च परिखावलयच्छलेन इत्यपह्नवोत्थापितत्वात्सापहवा व्यञ्जकाप्रयोगाद्गस्या' इति जीवातुः। १३

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः