पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
नैषधीयचरिते


प्रतिहट्टपथे घरट्टजात्पथिकाह्वानदसक्त्रुसौरभैः ।
कलहान्न घनान्यदुत्थितादधुनाप्युज्झति घर्घरस्वरः॥ ४५ ॥

 प्रतीति ॥ प्रतिहट्टपथे सर्वेष्वपि विपणिमार्गेषु पथिकाः पान्थास्तेषामाह्वानमाकारणं तद्ददति आह्वानदानि सक्तूनां सौरभाणि सौगन्ध्यानि तैः कृत्वा तैरुपलक्षिताद्वा घरट्टजाद्गोधूमादिपेषणपाषाणो घरट्टस्तस्माज्जाताद्यदुत्थिताद्यस्या नगर्या उदितात्कलहाजातो यो घर्घरस्वरः परुषशब्दोऽधुनाप्यद्यापि घनान्मेधान्नोज्झति न त्यजति । यत्तच्छब्दार्थोऽर्थाद्गम्यः । सक्तूनामामोदमाघ्राय पान्था भोजनार्थं तत्रत्यान्सक्तूंस्त्यक्तुं न शक्नुवन्ति, मेघाश्च तान्गृहं प्रत्युत्सुकयन्तीति सक्तुनिमित्तो मेघघरट्टयोः कलहः । मेघाः पीडयन्ति सक्तुपरिमलैर्घरट्टा जीवयन्ति । तेन मेघानां घरट्टानां च नित्यं कलहः । तेन घर्घरस्वरोऽद्यापि मेधान्न मुञ्चतीति वा । घरट्टा पान्थाह्वानं ददति मेघाश्च द्यन्ति खण्डयन्तीति भावः। योऽतिरोषात्कलहं करोति घर्घरस्वरस्तं न त्यजति । सर्वोपकारित्वं नगर्या द्योत्यते । हट्टपथे च कलहो भवति । 'तृतीयासप्तम्योः' इत्यमभावः । घर्धरः पृथक्पदम्[१]

वरण । कनकस्य मानिनीं दिवमङ्कादमराद्विरागताम् ।
धनरत्नकपाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥ ८६ ॥

 वरण इति ॥ कनकस्य सुवर्णस्य वरणः प्राकार एवामराद्रिः सुमेरुः मानिनीं कोपनां अत एवाङ्कात्स्वोत्सङ्गं [२]त्यक्त्वा आगतां भुवं प्राप्तां यां नगरीमेव दिवं परिरभ्यालिङ्गय अनुनयन्प्रसादयन्नुवास । मेरुः कथं तत्रागत इत्यत आह-धनरत्ने निबिडरत्ने निबिडे वा रत्नकपाटे ते एव पक्षती पक्षौ यस्य । सपक्षत्वात्तस्य तत्रागमनम् । उवासेत्यनेन तदिच्छया तत्रैव स्थितो, न तु तां गृहीत्वा स्वगृहं नेतुमशकत् । अतिमानिनीत्वाच्चाद्यापि नानुनेतुं शक्यते । स्वर्णप्राकारो मेरुतुल्यः, नगरी स्वर्गतुल्या, रत्नकपाटे हेमाद्रिपक्षतुल्ये । अन्योऽपि मानिनीमन्यत्र गतामालिङ्ग्यानुनयंस्तदनुरोधात्तत्रैव वसति । 'प्राकारो वरणः शालः' इत्यमरः । 'अनुनयन्निवास' इति वा पाठः[३]

अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्मभिः ।
उदयं लयमन्तरा रवेरवहद्बाणपुरीपरार्ध्यताम् ॥ ८७ ॥

अनलैरिति ॥ या नगरी ज्वलद्भिर्देदीप्यमानैर्कोपलैः सूर्यकान्तैर्निर्मितेभ्यो वप्रेभ्यो


१ 'अत्राध्यवसायस्य सिद्धत्वादतिशयोक्तिरलंकारः' इति साहित्यविद्याधरी। अत्र घनानां घरटकलहासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । तथाच घर्घरस्वनस्य तद्धतुकत्वोत्प्रेक्षा, व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षेति संकरः' इति जीवातुः। २ परित्यज्येति सुखावबोधाव्याख्यानं सुष्टु । यथाश्रुते ल्यबन्तत्वाभावात्पञ्चम्यनुपपत्तिः'। ३ 'अत्र रूपकालंकारः। नायकनायिकाव्यवहारप्रतीतिस्तु रूपकादेव । तेन नात्र समासोक्तिः' इति साहित्यविद्याधरी । 'रूपकालंकारः स्फुट एव । तेन चेयं नगरी कुतश्चित्कारणादागता द्यौरेव वरणः स्वर्णादिरेवेत्युत्प्रेक्षा व्यज्यते' इति जीवातुः "

  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः