पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नैषधीयचरितस्य

यविवेचनसंदर्भपैत्रमपाठिषम् । तत्र च राजशेखरकृतप्रबन्धकोषात् "श्रीहर्षः खिष्टद्वादशशताब्द्यन्तिमभागे बभूव" इति साधयितुं प्रायतिषि । निरमासिषं च तद्विषयकमेकं संदर्भम् ।

ततःप्रभृति बहवो जना विशेषतश्चेण्डियनआण्टिक्केरि (Indian Antiquary) नामकपुस्तके तत्र मदीयनैषधीयसमयविविक्त्तिपुस्तके स्वमत्या बहून् दोषानुदजीघटन् । परंतु संप्रत्यहमस्मिन् संदर्भे तदुद्बाटितदोषाभासान् वक्ष्यमाणस्वयुक्तिभिरपनेतुं स्वसंमतं च द्रढयितुमाशासे ।

अथ युक्तयः- स्वनिर्मिते प्रथमे संदर्भ नैषधीयसमयनिश्चायकानि वक्ष्यामाणाप्रमाणान्यदीदृशम् ॥

( १ ) श्रीहर्षो वाराणस्यधिपतिजयन्तचन्द्रसभायाः सभ्योऽभूदिति राजशेखरः ॥

( २ ) अयं जयन्तचन्द्रो जयचन्द्र एव. यः किल राठौरवंशीयानां कान्यकुब्जाधिपानामन्तिमो वाराणस्यधिपतिर्बभूव; यं च खिष्टस्य पञ्चनवत्युत्तरैकादशशताब्द्यां ११९५ यवना राज्यात् प्रसह्य प्रभ्रंशयांचक्रुः ॥

( ३ ) श्रीहर्षोप्यकथयत् 'कान्यकुब्जाधिपतिनाहं सत्कृतोऽभूवम्' इति ॥

( ४ ) राजशेखरोपि स्वग्रन्थैकखण्डे प्रसङ्गतोऽवर्णयत्-- "नैषधीयस्य प्रथमं पुस्तकं हरिहरो गुजरातेतिख्यातदेशं वीरधवलनामनि राजनि वसुमतिं शासत्यानयत् । तत्पुस्तकाच्च वीरधवलप्रधानामात्यो वास्तुपालो नामाऽन्यदेकं पुस्तकमवतारयामास' इति॥

किंच स्वनिर्मिते प्रथमे संदर्भ "राजशेखरस्य सर्व तु प्रमाणजातं विश्वासानर्हम्" इत्यष्यहं स्वीकृतवान् ॥

डाक्टर फिटजएडवर्ड हाल (FitzEdward Hall) पण्डितेन "धाराधिपतिभोजराजकृतसरस्वतीकण्ठाभरणे धृता बहवो नैषधीयश्लोका दृश्यन्ते" इत्यभाणि ।

अहंच "भोजराजः ख्रिष्टैकादशशताब्धाः पूर्वाध्ऱेभूत्" इत्यपि स्वसंदर्भेऽलेखिषम् ।

किंच यन्महाशयडाक्टरहालपण्डितेनोक्तम् , तदपि स्वसत्तायां प्रमाणमपेक्षते । यतः 'सरस्वतीकण्ठाभरणे नैषधीयश्लोकाः कदाचित्केनचिदन्येन ग्रन्थकर्तुः पश्चात्प्रक्षिप्यन्ते स्म, इति संदेह एव ' इत्यपि तत्रादर्शयम् ॥

मदीयसंदर्भसंमतमुद्दिश्य वक्ष्यमाणा आक्षेपा जनैः प्रादर्शिषत । ते च यथा-

श्रीमान् काशीनाथस्र्यम्बकसूनुस्तैलङ्गः कुसुमाञ्जलिकत्त्रुरुदयनाचार्यस्य सैमयं निरूपयन् प्रसङ्गतः श्रीहर्षस्यापि समयविवेकमन्वबध्नात् । तत्रादर्शयत्-"श्रीहर्षः ख्रिष्टस्य नवम्यां दशम्यां वा शताब्द्यां बभूव, न तु द्वादश्याम्" इति ॥ अत्र विषये चेमानि प्रमाणान्यदीदृशत् ।

(१) नैषधीयकाव्यस्य श्लोकाः सरस्वतीकण्ठाभरण उदाहृता दृश्यन्त इति ।


१ तच्च इण्डियन आण्टिक्केरीप्रथमपुस्तके ३० पृष्ठे विलोकनीयम् ॥ २ तथाचोक्तम्-'ताम्बूलद्वयमासन च लभते यः कान्यकुब्जेश्वरात्' इति ।। ३ इण्डियन् आण्टिक्केरी (Ind. Ant.) प्रथमपुस्तके २९७ पृष्ठे ३५३ पृष्ठे, द्वितीयपुस्तके ७१ पृष्ठे च विलोकनीयम् ॥