पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
द्वितीयः सर्गः

न्यसहायोऽपकारं करोति । प्रतिमासम् ।वीप्सायामव्ययीभावः । संगच्छतीति सकर्मकत्वात्तङभावः॥


कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् ।
हृदयं यदमूमुहन्नमूर्मम यच्चातितरामतीतपन् ॥ ५९ ॥

 कुसुमेति ॥ यदि सरेषवः कामबाणाः कुसुमानि पुष्पाणि न तु वज्रं । वज्ररूपा यदि न भवन्तीत्यर्थः । तत्तर्हि तानि वा कुसुमानि विषवल्लिजानि विषवल्लीभवानि । यद्वामम ते स्मरेषवो वज्रमेव न तु कुसुमानि । लोकप्रसिद्धि विरुद्धं यदि चेत्तर्हि तानि विपवल्लीजातानि भविष्यन्ति । कुसुमत्वमस्तु विषवल्लीजत्वं साXतुः । विपक्षे बाधकमाहयंद्यस्मात् अमूः स्मरेषवो मम हृदयमतितरामतिशयेनीमूमुXन्मोहयामासुः, अतीतपंश्च तापयामासुः। अत्यन्तमोहतापौ विषवल्लीजत्वेन बिनाXन संगच्छेते । तस्माद्विषवल्लिजान्येवेत्यर्थः । 'इषुर्द्वयोः' इत्यमरः । अमूमुहन् अतीतपुXन्नितिं, मुहेस्तपेश्च ण्यन्ताल्लुङ् । तयोरकर्मकत्वात् 'गतिबुद्धि-' इत्यादिनाऽणौ कर्तुणौ कर्मत्वात् हृदयमिति द्वितीया । अतितेराम् 'किमेत्तिङ्-' इत्यामुः


तदिहानवधौ निमज्जता मम कंदः राधिनीरधौ
भव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः ॥ ६० ॥

 तदिति ॥ हे हंस, तत्तस्मात्त्वं ममावलम्बनमाधारो भव । क इव-पोत इव समुद्रतरणपात्रमिव । किंभूतस्य मम-इहास्मिन्ननवधौ निर्मर्यादे कंदर्पशरैर्जनितो य आधिर्मानसी व्यथा तद्रूपे नीरधौ समुद्रे निमज्जतो ब्रुडतः। किंभूतः - विधिना ब्रह्मणा, दैवेन वा आकस्मिकोऽकस्मात्सृष्टो जातः कृतः संनिधिः सांनिध्यं यस्य । अपारे समुद्रेनिमज्जतः कस्यचिदैववशात्समीपगतः पोतो यथा आलम्बनं भवति, तथा त्वमपि भवेति भावः। हेतुशून्यः कालोऽकस्मादित्यनेनाव्ययेन लक्ष्यते । तत्र भव आकस्मिकः। अध्यात्मादित्वाट्ठञ् 'अव्ययानां भमात्रे टिलोपः' ॥

अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
खत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ ६१॥

 अथवेति ॥ अथवेति पूर्वापरितोषे। इयम् 'भव पोत इवावलम्बनम्' इत्यादिका नोऽस्मत्कर्तृका भवतः त्वत्कर्मिका प्रवर्तना प्रेरणा पिष्टं पिष्टमेव कथं न पिनष्टि । पिष्टपेषणन्यायं कथं नानुसरति व्यर्थमित्यर्थः । ननु स्वतःप्रवृत्तौ पिष्टपेषणं न तथास्तीत्याशङ्कायां स्वतःप्रवृत्तिं दृष्टान्तेन समर्थयते-हि यस्मात्सतां साधूनां परार्थता परोपकारित्वं स्वत एव । परप्रेरणं नापेक्षते इत्यर्थः । तस्मात्पिष्टपेषणतुल्या प्रवर्तनेति भावः ।


 १ 'अत्रानुपमानम्' इति साहित्यविद्याधरी । 'अत्र संगमनस्य दाहार्थत्वोत्प्रेक्षणात्फलोत्प्रेक्षा' इति जीवातुः। २ ‘अत्रानुपमानम्' इति साहित्यविद्याधरी । 'मोहतापलक्षणविषकार्यदर्शनाद्विषवल्लित्वोत्प्रेक्षा' इति जीवातुः।