पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
द्वितीयः सर्गः

 भृशेति ॥ हे हंस, मया भवान्मरुद्वायुरासादि प्राप्तः । किंभूतेन-भृशतापमतिशयितकामज्वरं बिभर्तीति । किंभूतो मरुत्-तुषारस्य हिमस्य सारः श्रेष्ठो भागो विद्यतेऽस्मिन् । ज्वरतप्तस्य शीतलेन वायुना यथा तापनाशस्तथा भवत्संगत्या ममेत्यर्थः। तदेव दृष्टान्तेनाह-धनिनां धनवतामितर एतद्विलक्षणो नीचो द्रव्यरूपो वा संनिधिः सम्यनिधिः । सतां विदुषां पुनर्गुणवतां संनिधिः समागम एव संनिधिः सम्यग् निधिर्न त्वन्यः । निधिप्राप्त्या धनिकानां यथा हर्षस्तथा गुणिजनसंनिधिवासिनां हर्षः। सन्निति पृथग्वा । 'इतरस्त्वन्यनीचयोः' इत्यमरः ॥

शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम ।
अमुना तव शंसितेन तु स्वदृशैवाधिगतासवैमि ताम् ॥ ५४॥

 शतश इति ॥ त्रिजगतो मोहे मूर्च्छाप्रापणे वशीकरणे च महौषधिरुत्तमौषधिः । संमोहिनी विद्येत्यर्थः । सा भैमी शतशः शताद्वहुभ्योऽनेकवारं वा मम श्रुतिमागतैव । अनेकवारमाकर्णितैवेत्यर्थः। अमुनानेन तव शंसितेन त्वत्कर्तृकेण सौन्दर्यकथनेन तु पुनरहं तां भैमीं स्वदृशैव स्वनेत्रेणैवाधिगतां दृष्टामवैमि जाने । यद्येवंविधा त्वया दृष्टा तर्हि मयापि दृष्टैवेत्यतिमित्रतया लौकिक्युक्तिः । यच्च बहुवारमाकर्ण्यते तत्कदाचिद्दृश्यतेऽपि । शतश इति बह्वर्थकारकत्वाच्छस् ॥

नेत्रादपि मित्रवचनस्याधिक्यमाह-

अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम्।
सविधेऽपि नसूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥५५॥

 अखिलमिति ॥ चौ तुल्ययोगार्थौ । सुहृदा मित्रेण च स्वहृदा स्वमनसा चाखिलं समस्तं वस्त्वनाविलमसंदिग्धम्, अविपर्यस्तं च आगमानुमानाभ्यां पश्यताम्, अनाविलमसंदिग्धं यथा भवति तथा वा जानतां विदुषां ज्ञातॄणामक्षिणी नेत्रे वदनालंकृतिमात्रं मुखालंकरणमेव न त्वन्यत्तयोः प्रयोजनम् । यतः किंभूते अक्षिणी-सविधे समीपेऽपि न सूक्ष्मवस्तुग्राहके । यन्नेत्रद्वयं स्वगतं कज्जलारक्तत्वादिकमपि ज्ञातुं न शक्नोति तद्दूरस्थं कथं गृह्णीयात् । असामीप्यादिति भावः । अतः प्रत्यक्षं ताभ्यां दुर्बलमित्यर्थः । मित्रस्य प्रथमग्रहणं हृदयापेक्षया प्राधान्यद्योतनार्थम् । एवंविधे अक्षिणी अलंकरणमात्रं न, किंत्वलंकृतिरेव वद कथय इति वा । सुहृदा देशकालादिव्यवहितमपि पश्यति न तु नेत्राभ्याम् । सुहृदेति ‘सुहृदुर्हृदौ-' इति साधुः । नसूक्ष्मेति नसमासः । सूक्ष्मसाक्षिणी नेति केचित् । 'मात्रं कार्त्स्न्येऽवधारणे' । अत्रावधारणे मात्रशब्दः ॥


 १ 'अत्र रूपकार्थान्तरन्यासालंकारौ । अर्थान्तरप्रतीतिस्तु रूपकेनैव । तेन समासोक्तिबुद्धिर्न कार्या' इति साहित्यविद्याधरी । 'दृष्टान्तालंकारः' इति जीवातुः । २ 'अत्र रूपकभाविकालंकारौ । तथा चोक्तं काव्यप्रकाशे-'प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविकम्' इति, इति साहित्यविद्याधरी। ३ 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी ।