पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४०
नैषधीयचरिते

त्यादि श्रौतेऽभिषेकाख्ये उत्सवे महाभिषेकार्थं सहस्रसंख्या धारा लोहशलाकानिर्मितजलप्रवाहमार्गा यस्य स तादृशो यः कलशस्तस्य श्रीः, प्राप्ता सहस्रच्छिद्रगलज्जलधारकलशस्येव श्रीः शोभा येन सः । महोत्सवे हि सहस्रधारेण सुवर्णकलशेन महाभिषेकः क्रियते । तथा च राहुदन्तकृतच्छिद्रपरम्परागलदमृतधारश्चन्द्रो गलज्जलधारसहस्रच्छिद्रसुवर्णकलश इव शोभमानः पूर्वोक्तवर्णनयोक्तविधत्वत्कृतपूजया च सुरतप्रवृत्तयोरावयोरुद्दीपकतया परमानन्दं कुर्यादिति भावः । एतेन तत्समयोचितरतिकामविवाहोत्सवाभिधानेन 'चन्द्रोऽस्तु नस्तुष्टये' इत्यनेन च विलासिना नलेन स्वनिर्वर्त्यतृतीयपुरुषार्थपयोधिपीयूषरसास्वादनलालसाभिव्यज्यते । 'सुधाधार-' इत्यपि पाठे--दीधितिसुधाया धारा यस्य सुधाया आधार इति वा । आनन्दपदेन 'तुष्टयेऽस्तु' इत्याशिषा च ग्रन्थसमाप्तिं द्योतयति । महाभारतादी वर्णितस्याप्युत्तरनलचरित्रस्य नीरसत्वान्नायकानुदयवर्णनेन रसभङ्गसद्भावाञ्च काव्यस्य च सहृदयाह्नादनफलत्वाच्चात्रोत्तरचरित्रं श्रीहर्पण न वर्णितमित्यादि ज्ञातव्यम्। न इति पक्षे 'अस्मदो द्वयोश्च' इति द्वित्वेपि बहुवचनम् ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामलदेवी च यम् ।
द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महा-
 काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्वलः ॥२२॥

 श्रीहर्षमिति ॥ द्वाविंशतेः पूरणः सर्गो गतः समाप्तिं प्राप । किंभूतम्य श्रीहर्षस्य ... नवो यः साहसाङ्को नाम राजा तस्य चरिते विषये चम्धू गद्यपद्यमयी कथां करोतीति कृत् तस्य निर्मितवतः । सोपि ग्रन्थो येन कृत इति सूच्यते । 'नृपसाहसाङ्क-' इति पाठे-नृपश्चासौ साहसाङ्कश्च तस्य गौडेन्द्रस्य चरितं विषये चम्पूकृतः । भोजराजस्य विक्रमार्कस्य वेति केचित् । द्वाविंश इति पूरणे डटि ‘ति विशतेर्डिति' इति तिलोपः ॥

यथा यूनस्तद्वत्परमरमणीयापि रमणी
 कुमाराणामन्तःकरणहरण नव कुरुत ।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
 किमस्या नाम स्यादरसपुरुषानादरभरैः ॥ १॥

 यथेति ॥ यथा परमरमणीयापि रमणी यूनस्तरुणस्य कामिनोऽन्तःकरणहरणं कुरुते, तद्वत्तथा कुमाराणां बालिशानां क्षीरलाभमात्रेण परमपुरुषार्थप्राप्तिमभिमन्यमानानामननुभूतकामसुखानां चित्तं स्ववशं कैव कुरुते, अपितु-न कापि । तथेयं काव्यरचनारूपा परमा । रमणीया मदुक्तिरपि श्रवणमननादिवशात्सुधीभूयामृतत्वं प्राप्य सुधियः सकलदर्शनरहस्यवेदिनोऽतिसरसस्य पण्डितस्य चेतश्चेद्यदि मदयति आनन्द.