पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२७
द्वाविंशः सर्गः।


प्रत्यवायो न विद्यते' इति प्रामाणिकवचनात्तेजोरूपस्यास्य चन्द्रस्य पातो नाभूदिति युक्तमेव, नात्र चित्रमिति भावः । चन्द्रोऽप्यात्ममयप्रकाशः अन्तिमदेहं संपूर्णतां प्राप्तश्च ॥

स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलचित्रमम्भः ।
चन्द्रं पितृस्थानतयोपतस्थे तदङ्करोचिःखचिता सुधैव ॥ १२१॥

 स्वधेति ॥ तनयैः पुत्रैः श्रद्धया परलोकास्तित्वबुद्धया वितीर्णत्वात्पवित्रं कृष्णतिलैश्चित्रं मिश्रितं पितृभ्यः स्वधाकृतं यदम्भः पितृस्थानतया 'चन्द्रो वै पितृलोकः' इति श्रुतेः पितृलोकतया चन्द्रमुपतस्थे चन्द्रेण संगतमभूत् । तत्कृष्णतिलमिश्रं जलमेवाङ्कस्य कलङ्कस्य यद्रोचिः कान्तिस्तया खचिता मिश्रिता सुधां पीयूषम् । कृष्णतिला एव कलङ्कः, तत्संलग्नं जलमेव पीयूषम् , नत्वन्यः कलङ्को न चान्यत्पीयूषमित्यर्थः । श्रद्धेति, पितृलोकप्राप्तौ हेतुगर्भम् । उपतस्थे, संगतकरणे तङ् ॥

पश्योच्चसौधस्थितिसौख्यलक्ष्ये त्वात्केलिकुल्याम्बुनि बिम्बमिन्दोः ।
चिरं निमज्ज्येह सतः प्रियस्य भ्रमेण यच्चुम्बति राजहंसी ॥१२२॥

 पश्यति ॥ हे प्रिये, यमुश्चसौधे स्थित्या कृत्वा सौख्येन निरन्तराय लक्ष्ये दृश्ये त्वत्केलिकुल्याया अम्बुनि तदिन्दोर्बिम्बं पश्य । तत्किम्-राजहंसी इह कुल्याजले निमज्ज्य चिरं सतोऽन्तर्वर्तमानस्य प्रियस्य राजहंसस्य भ्रमेण यच्चन्द्रबिम्बं चुम्बति । सौरव्यम्, स्वार्ध सुखिनो भाव इति भावे वा ष्यञ् । 'सौक्ष्म्य-' इति पाठे--सूक्ष्मत्वेन लक्ष्ये । उच्चतरप्रदेशस्थितं प्रति ह्यधोदेशस्थितं वस्तु सूक्ष्मं प्रतिभाति ॥

सौवर्गवर्गैरमृतं निपीय कृतोऽह्नि तुच्छः शशलाञ्छनोऽयम् ।
पूर्णोऽमृतानां निशि तेत्र नद्यां मग्नः पुनः स्यात्प्रतिमाच्छलेन ॥

 सौवर्गेति । स्वर्गे भघाः सौवर्गा देवास्तेषां वर्गवृन्दैरमृतं निपीयाह्नि तुच्छो रिक्तः कृतोऽयं शशलाञ्छनो निशि ते तवात्र क्रीडानद्यां प्रतिमाच्छलेन प्रतिबिम्बव्याजेन मग्नः सन्पुनरमृतानां जलैः, अथच-पीयूषैः, पूर्णः स्याद्भवेदित्यहं संभावयामीत्यर्थः । एतेन नदीजलस्यामृतत्वं सूचितम् । अह्नि तुच्छः कृतोपि पुनः क्रमेणामृतैः पूर्णः सत्रात्रौ तव क्रीडानद्यां प्रतिमाव्याजेन मग्नः स्यात् पुनः पानभयादिव पलाय्य निलीनः स्यादित्यहं शङ्के, इत्यर्थ इति वा । पूर्णाऽमृतानाम् तृप्त्यर्थत्वात्करणे षष्ठी॥

समं समेते शशिनः करेण प्रसूनपाणाविह कैरविण्याः।
विवाहलीलामनयोरिवाह मधुच्छलत्यागजलाभिषेकः ॥ १२४ ॥

 सममिति । इह तव क्रीडानद्यां कैरविण्याः कुमुदिन्याः प्रसूनरूपे पाणौ शशिनः करेण रश्मिना, अथच-पाणिना, समं सह समेते संगते सति मधु पुष्परस एव च्छलं यस्य स तव्द्याजस्त्यागजलस्य कन्यादानसंकल्पोदकस्याभिषेकः कर्ता, अनयोश्चन्द्रकुमुदिन्योर्विवाहलीलामाहेव सूचयतीव । चन्द्रकरस्पर्शमात्रेण कुमुदानि विकसितानि,