पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२३
द्वाविंशः सर्गः।

स्ववर्णना न स्वयमर्हतीति नियुज्य मां त्वन्मुखमिन्दुरूपम् ।
स्थानेऽत्युदास्ते शशिनः प्रशस्तौ धरातुरासाहमिति स्म साह ॥

 स्वेति ॥ सा धरातुरासाहं भूमीन्द्रमित्याह स्म । इति किम्-हे प्रिय, इन्दुरूपं त्वन्मुखमिति हेतोश्चन्द्ररूपात्मस्तुतौ मां नियुज्याज्ञाप्य शशिनः प्रशस्तौ वर्णनविषयेऽत्युदास्तेऽतितरामुदासीनं भवति । एतत्स्थाने युक्तम् । हेतुमेवाह-इति किम्-'सतामेतदकर्तव्यं परनिन्दात्मनः स्तुतिः' इत्यादि वचनात्स्वयमात्मनैव स्वस्य वर्णना स्तुति र्नार्हति न युक्तेति । इयत्पर्यन्तं मया चन्द्रो वर्णितः, इदानीं त्वया वर्णनीयः, तूष्णींभावो वा युक्त इत्याशयेन भैमी चन्द्रस्तुतौ तं सोत्प्रासं प्रावर्तयदिति भावः ॥ तुरासाहमित्यत्र तृतीयसर्गे 'धरातुरासाहि' इत्येतच्छोकस्था शङ्का ज्ञातव्या, तत्रोत्तरम्-इन्दुरूपं त्वन्मुखं, चन्द्ररूपात्मस्तुतौ मां नियुज्य शशिनः प्रशस्तौ अत्युदास्ते । साहं धरावदतुराऽनुत्तालाऽवेगा वा । पृथ्वीवद्गम्भीरेत्यर्थः । अर्थात्तमाह स्मेति ज्ञान्तव्यम् ॥

तयेरितः प्राणसमः सुमुख्या गिरं परीहासरसोत्किरां सः।
भूलोकसारः स्मितवाक् तुषारभानुं भणिष्यन्सुभगां बभाण ॥१०७॥

 तयेति ।। स भूलोके सारः श्रेष्टतमो नलः स्थितवाक् तुषारभानुं चन्द्रं भणिष्यन् वर्णयिष्यन् सन् सुभगां सौभाग्यवतीं भैमीं बभाण । किंभूतः-तया सुमुख्या भैम्या परिहासरसस्योत्किरामुद्भावयित्रीं गिरमीरित उक्तः । तथा-प्राणसमोऽतिप्रेयान् । तया चन्द्रवर्णने ईरितः प्रेरितः सन्परिहासरसोत्किरां गिरं सुभगा यथा तथा बभाणेति या। उत्कराम, 'इगुपध-' इति कः। पूर्वेण षष्ठीसमासः। भणिष्यन् , हेतौ लृटः शता ॥

तवानने जातचरीं निपीय गीति तदाकर्णनलोलुपोऽयम् ।
हातुं न जातु स्पृहयत्यवैमि विधुं मृगस्त्वद्बदनभ्रमेण ॥ १०८ ॥

 तवेति ॥ प्रिये, अयं मृगः तवानने जातचरीं भूतपूर्वां गीतिं स्वरमाधुरीं निपीय सादरमाकर्ण्येदानीमपि तस्या भवद्गीतेराकर्णनलोलुपोऽतितरां लुब्धोऽतिसादृश्यात्त्वद्वदनभ्रमेण विधुं हातुं जातुं कदाचिदपि न स्पृहयतीत्यहमवैमि । मृगा हि गानप्रिया भवन्तीति चन्द्रं त्वन्मुखभ्रान्त्या त्यक्तुं नेच्छतीत्यहं शङ्क इत्यर्थः । जातचरीं, 'भूतपूर्वे चरट्' । लोलुपः, यन्तात्पचाद्यचि ‘यङोऽचि च' इति यङो लुक् ॥

इन्दोर्भ्रमेणागमनाय योग्ये जिह्वा तवास्ये विधुवास्तुमन्तम् ।
गीत्या मृगं कर्षतु भन्स्यता किं पाशीबभूवे श्रवणद्वयेन ॥१०९॥

 इन्दोरिति ॥ अतिसादृश्यादिन्दुरेवेदमितीवेन्दोर्भ्रमेण मृगस्योपगमाय योग्ये प्राप्नुमहे तवास्ये वर्तमाना जिह्वा कत्रीं गीत्या वर्णस्वरमाधुर्या कृत्वा विधुरूपं वास्तु वसतिगृहं तद्विद्यते यस्य तं विधुवास्तुमन्तं चन्द्रमध्यस्थायिनमपि मृगं कर्षतु गीतेर्मधुरतमत्यात्मृगस्य च प्रियगानत्वात्स्वसमीपमानयत्वित्यर्थः। तदाकर्षणसाधनमुत्प्रेक्षते-