पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२२
नैषधीयचरिते


वाणीभिराभिः परिपक्रिमाभिर्नरेन्द्रमानन्दजडं चकार ।
मुहूर्तमाश्चर्यरसेन भैमी हैमीव वृष्टिः स्तिमितं च तं सा ॥१०३॥

 वाणीभिरिति ॥ सा भैमी आभिः पूर्वोक्ताभिः परिपाकेन निवृत्ताभिः परिणतकवित्वशक्तितया प्रसादादिगुणयुताभिर्वाणीभिः कृत्वा तं नरेन्द्रमानन्दजढं हर्पपरवशं चकार । तथा-मुहूर्तमद्भुतापरनाम्नाश्चर्येण रसेन, अथच 'तद्रूपेण जलेन, हैमी तुषारसंबन्धिनी वृष्टिरिव भैमी स्तिमितमतिस्नेहात्प्राप्तस्तम्भं च, अथच-आर्द्रं चकार । हिमवृष्टिर्यथान्यं जडमार्द्रं च करोति, तथेयमप्यानन्दजडं सातिस्नेहं च चकारेत्यर्थः । परिपक्रिमाभिः, डित्त्वानिवृत्तेर्थें क्रिः, क्रेर्मप् ।

इतो मुखाद्बागियमाविरासीत्पीयूषधारामधुरेति जल्पन् ।
अचुम्बदस्याः स मुखेन्दुविम्बं संवावदूकश्रियमम्बुजानाम् ॥१०४॥

 इत इति ॥ इत्येवं जल्पन वदन् स नलोऽम्बुजानां संवावदूका नितरां संवादिनी श्रीः शोभा यस्य तादृशं कभलतुल्यशोभमस्या मुखेन्दुबिम्बमचुम्बत् । चन्द्रकमलतुल्यं भैमीमुखं प्रीत्यतिशयादचुम्बदित्यर्थः । इति किम् - हे भैमि, इयमुक्तप्रकारा पीयुपधारावन्मधुरा वाक् इतः प्रत्यक्षदृश्याद्भवन्मुखादाविरासीत् निःसृतेति । इत इत्यनेन सामीप्याभिनयकारिणा करेण भैमीमुखं चिबुके धृतमिति ध्वन्यते । मुखस्येन्दुबिम्बत्वेन च पीयूषधारासंबन्धौचिती सूच्यते । तथा च पीयूपधारया मधुरेत्यपि व्याख्ययेम् । संवावदृकेत्यादिना च भैम्याः पद्मिनीत्वं प्रसिद्धम् । चन्द्रबिम्बस्य कमलैः सह विसंवादो विरोधित्वात् , एतन्मुखचन्द्रबिम्बस्य तु कमलैः सह संवादः कमलसौभाग्यभाक्त्वादिति प्रसिद्धचन्द्रबिम्बादेतन्मुखबिम्बमधिकमिति सूच्यते । अत्यर्थं संवदति संवावदुका । संपूर्वोयं वदति[१]मैयां वर्तते ॥

प्रियेण साथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता ।
स्मितांशुजालं विततार तारा दिवः स्फुरन्तीव कृतावतारा ॥ १०५ ॥

 प्रियेणेति ॥ प्रियेण एवम् 'इतो मुखात्-' इत्यादिरूपं प्रियं वचनमुक्ता भाषिता विदर्भभूमीपतेर्वशेन कुलेन मुक्ता जनिता । तथा-स्फुरन्ती दीप्यमानकान्तिः सोल्लासा सा भैमी अथ नलवचनानन्तरं स्मितांशुजालं विततार । तदेव नलाय प्रीतिदानमिव ददावित्यर्थः । केव-दिवः सकाशात् क्षीणपुण्यतया स्वच्छया या कृतावतारा भृलांकमागता रोहिणी तारेव स्फुरन्ती किरणजालं विततारेवेति उत्प्रेक्षोपमा वा । वंशः कुलमेव वंशो वेणुस्तत्र जाता देवधार्या मुक्ता मौक्तिकरूपा । कृतावतारेत्यत्र तरणं तरः 'ऋदोरप्' तदन्तात्प्रज्ञादित्वात्स्वार्थेऽणि पश्चादवशब्देन सह 'सह सुपा' इति समासः ॥


  1. विततान' इत्यपि क्वाचित्क: पाटः' इति सुखाववोधा