पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२०
नैषधीयचरिते


श्रवःसंञकस्तुरङ्गोऽप्यासीत् । ऐरावताख्यो मतङ्गजोऽप्यासीत् । यदीयपितुमध्येऽश्वगजादिकं भवति, तदीय(पुत्र)मध्ये शशमात्रसंभवे किमाश्चर्यमित्यर्थः ॥

गौरे प्रिये भातितमां तमिस्रा ज्योत्स्नी च नीले दयिता यदस्मिन।
शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्ति ॥९७॥

 गौर इति ॥ तमिस्रा तमोबहुलास्य दयिता रात्रिर्गौरे प्रिये चन्द्रे विषये भातितमाम् । तथा -ज्योत्स्नी च चन्द्रिकायुक्ता धवलास्य दयिता रात्रिर्नीले प्राणेशेऽस्मिंश्चन्द्रे नितरां शोभते । भिन्नवर्णे हि शोभेते इत्यर्थः । तस्माद्धेतोस्तयोस्तमिस्राज्योत्स्न्योरुभयोरपि विषये स्वस्य शोभाप्राप्तेर्लोभादभिलापात्तयोरेव वा पत्योर्या शोभाप्राप्तिस्तदभिलाषाद्धवलश्यामलवत्संबन्धात्तमिस्राज्योत्स्न्योः शोभया भवितव्यमिति । अयं चन्द्रः सितासितां धवलां श्यामलां च मूर्ति विभर्ति । वा इवार्थः । शोभाप्तिलोभादिवेत्यन्वयः। नीलभागे ज्योत्स्नी प्रियां धारयितुं धवले च तामसीमिति यथासंख्यम् ॥

वर्षातपानावरणं चिराय काष्ठौघमालम्व्य समुत्थितेषु ।
बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम् ॥ ९८ ॥

 वति ।। अहं बालेपु तनुपु सूक्ष्म रूपेप्वविकसितेषु चेह प्रत्यक्षदृश्येषु तारासु नक्षत्रेष्वेव कवकेषु छत्राकेषु मध्ये चिरकालोत्पन्नत्वाद्विकस्वरीभूतं विकसितमेकं छत्राकमेव चन्द्रमवैमि मन्ये । किंभूतेषु ताराकवकेपु-चिराय बहुकालं वर्षास्वृतौ तपे ग्रीष्मर्तौ च, वर्षेषु जलवृष्टिषु आतपेपूष्णेषु च सत्सु अनावरणमनाच्छादितं काष्ठौघं दिक्समूहमेव दारुसमूहमालम्ब्य समुत्थितेपूत्पन्नेषु । वर्षाकाले ह्यनावृतेषु जलस्तिमितेषु पश्चादुष्णतप्तेषु च काष्ठेषु सूक्ष्मस्थूलानि च्छात्राकाणि भवन्ति । तथाच तारा अल्पकवकानि, चन्द्रस्तु स्थूलकवकमिवेत्युत्प्रेक्षा ॥

दिनावसाने तरणेरकस्मान्निमज्जनाद्विश्वविलोचनानि
अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवती तरन्ति ॥ ९९ ॥

 दिनेति ॥ विश्वस्य जगतो विलोचनानि दिनावसाने तरणेः सूर्यस्याकस्मादसंभावि- तहेतोर्निमज्जनात्प्रतीचीसागरनीरप्रवेशाद्धेतोर्नक्तं रात्रौ तमोनिमित्तां स्खलनादिरूपां विपदमेव द्वीपवर्ती महानदीमस्योडुपस्य चन्द्रस्य प्रकाशरूपात्प्रसादात्तरन्ति । चन्द्रेण तमो निरस्य सर्व प्रकाशितमिति भावः । अन्येपि रात्री तरणेर्नौकाया अकस्मान्मज्जनाद्धेतोर्बृडनरूपामापन्नदीमुडुपस्याकस्मादागतस्याल्पयानपात्रस्य प्रसादात्तरन्ति ॥

किं नाक्ष्णि नोऽपि क्षणिकोऽणुकोऽयं भानस्ति तेजोमयबिन्दुरिन्दुः
अत्रेस्तु नेत्रे घटते यदासीन्मासेन नाशी महतो महीयान् ॥ १०० ॥

 किमिति ॥ नोऽस्माकममहतां पामराणामपि अक्ष्णि नेत्रधिपये तेजोमयस्तेजाोरूपों विन्दुरेवायमिन्दुरङ्गुल्या नयनप्रान्तचिपिटीकरणे धवलवर्तुलाकारेण भान शोभमानः