पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'१०१८
नैषधीयचरित


तथाच तुल्ययोर्हरिहरयोर्नत्रयोर्द्वयोरपि चन्द्रकामयोःप्रलीनत्वाद्दर्शे चन्द्रस्याप्यनङ्गतया च समशीलत्वादुचितैव मैत्रीत्यर्थः । तथाच कामस्य चन्द्रसखिताप्रसिद्धिर्मुख्यैव युक्तेति भावः॥

नेत्रारविन्दत्वमगान्मृगाङ्कः पुरा पुराणस्य यदेष पुंसः ।
अस्याङ्क एवायमगात्तदानीं कनीनिकेन्दि [१]न्दिरसुन्दरत्वम् ॥ ९० ॥

 नेत्रेति ॥ पुरा पूर्वं यदा यस्मिन्काले एष मृगाङ्कः पुराणस्य पुंसः श्रीविष्णोर्नेत्रारविन्दत्वं नयनकमलत्वमगात् । तदा तस्मिन्काले अस्य विष्णुनेत्रारविन्दभूतस्यास्य चन्द्रस्यायमङ्क कलङ्कः एव कनीनिकाया इन्दिन्दिरस्य भ्रमरस्य सुन्दरत्वमगात्प्रापत् । 'अदात्' इति पाठे-अयं श्रीविष्णुरस्य चन्द्रस्याङ्के विषये कनीनिकेन्दिन्दिरसुन्दरत्वमदात् । नेत्रे हि कनीनिकया भाव्यम् , अरविन्देच भ्रमरेण । तथाचास्य नेत्रारविन्दरूपत्वादङ्कमेवोभयं श्रीविष्णुः कृतवानित्यर्थः । अङ्क एव कनीनिका की भ्रमरेण सुन्दरत्वमस्यादादिति वा। 'इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः' इति हलायुधः॥

देवेन तेनैष च काश्यपिश्च साम्यं समीक्ष्योभयपक्षभाजौ।
द्विजाधिराजौ हरिणाश्रितौ च युक्तं नियुक्तौ नयनक्रियायाम ॥९१॥

 देवेनेति ॥ तेन देवेन श्रीविष्णुना एप चन्द्रः काश्यपिर्गरुडश्चैतौ द्वावपि साम्यं समानधर्मतां समीक्ष्य तुल्यायां नयनक्रियायां क्रमेण नेत्रव्यापारे वाहनव्यापारे च यश्नियुक्तौ, तद्युक्तमुचितमित्यर्थः । चावन्योन्यसमुच्चये । साम्यमेवाह ..उभयपक्षौ शुक्लपक्षकृष्णपक्षौ भजति चन्द्रः, गरुडस्तु द्वौ छदौ भजति, तादृशौ द्वावपि । तथा द्विज्ञानां ब्राह्मणानां राजा चन्द्रः। गरुडस्तु पक्षिणां राजा। तादृशौ। तथा हुरिणेन कलङ्कमृगेणाश्रितश्चन्द्रः, गरुडस्तु हरिणा विष्णुना वाहनार्थेनाश्रितः, नादृशौ । एवमुभयोः साम्यात्सम एव व्यापारे यन्नियुक्त्तौ तदुचितं कृतमिति भावः । काश्यपिः, बाह्वादित्यादिम् ॥

यैरन्वमायि ज्वलनस्तुषारे सरोजिनीदाहविकारहेतोः ।
तदीयधूमौघतया हिमांशौ शङ्के कलङ्कोऽपि समर्थितस्तैः ॥ ९२ ॥

 यैरिति ॥ यैः पण्डितैः सरोजिन्याः दाहरूपाद्विकाराद्धेतोस्तुपारे ज्वलनोऽग्निरन्वमायि । तुषारः साग्निर्भवितुमर्हति संबन्धे सति दाहकारित्वात् , साग्निभूदेशवत्, तप्तोदकवद्वेति हिमे विषये वह्निरनुमित इत्यर्थः । तैः पण्डितैर्हिमांशौ तुषारमये चन्द्रं वर्तमानः कलङ्कोपि तदीयधूमौघतया हिमाग्निसंबन्धिधूमसमूहरूपत्वेन समर्थित इत्यहं शङ्के । वह्नौ हि धूमेन भाव्यम्, चन्द्रश्च तुपारमयत्वादुक्तरीत्या वह्निमान् , तथा च- कलङ्को धूमसमूह एवेति तैः सथितमित्यहं संभावयामीत्यर्थः ॥


  1. 'इन्दीवर-' इति पाठमङ्गीकृत्य व्याख्यानं गौरवादुपेक्ष्यम्-इति सुखावबोधा