पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१४
नैषधीयचरिते


ष्ठति । सप्तवायुस्कन्धाः पुराणप्रसिद्धाः । लेलिहेति, नितरां पुनःपुनर्वा लेढीत्यर्थे योङ पचाद्यचि 'यङोचि च' इति यङो लुक् ॥

अस्मिञ्शिशौ न स्थित एव रङ्कुर्यूनि प्रियाभिर्विहितोपदायम् ।
आरण्यसंदेश इवौषधीभिरङ्के स शङ्के विधुना न्यधायि ॥ ७८ ॥

 अस्मिन्निति ॥ शिशौ वाले एककलात्मकेऽस्मिंश्चन्द्रे रङ्कुर्मृगो न स्थितो नासीदेव तस्यां दशायामदर्शनात् । किंतु प्रियाभिरोषधीभिर्यूनि तरुणे पूर्णावयवेऽस्मिंश्चन्द्रेऽयं रङ्कुरुपदेव विहिता प्रेषिता । कीदृशी-अरण्ये भवःसंदिश्यते प्रस्थाप्यते संदेशस्तद्रूपा । अरण्यभवानां संदेशरूपा वा । वयं भवत्प्रिया निर्जने वने मृगैः सह वसामः, त्वं तु स्वर्गे विजयी सुखेन वर्तसे इति गूढार्थोप(पा)लम्भसूचिकेति यावत् । अनन्तरं विधुना प्रेयसीसंदेशरूपः स रङ्कुरङ्के मध्ये, अथच-उत्सङ्गे, प्रियाप्रेमभरेण न्यधायि स्थापित इत्यहं शङ्के । अन्यापि प्रिया तरुणं प्रियं प्रति केचित्संदेशमुपदारूपेण प्रेषयति स च तं हृदयादौ धारयति । ओषध्यो हि वनवासिन्यस्तदनुरूपमेव संदेशं मृगं स्वप्रिये चन्द्रे प्रेषितवत्यः । आरण्यसंदेश इवायमुपदा प्रहितेति वा । 'यदा-' इति पाठेयदाप्रभृति प्रेषितः, तदाप्रभृति तारुण्यदशायां चन्द्रेणायमङ्के न्यधायि, नतु पूर्वमित्यर्थः । आरण्यः, भवार्थेऽण् ॥

अस्यैव सेवार्थमुपागतानामास्वादयन्पल्लवमोषधीनाम् ।
धयन्नमुष्यैव सुधाजलानि सुखं वसत्येष कलङ्करङ्कुः ॥ ७९ ॥

 अस्येति ॥ एष कलङ्करङ्कुर्विरहपीडितत्वादस्यैव चन्द्रस्य सेवार्थमुपागतानामोषधीनां पल्लवमास्वादयन् । तथा-अमुष्यैव सुधारूपाणि जलानि धयन् पियन् सुखमनायासलब्धवृत्तिरिव वसति । आहारलोभादत्रैव वसतीत्यर्थः । अन्योपि मृगो जलकिसलययुते देशे सुखेन वसति कदाचिदपि न त्यजति । पल्लवम्, जात्येकवचनम् ॥

रुद्रेषुविद्रावितमार्तमारात्तारामृगं व्योमनि वीक्ष्य बिभ्यत् ।
मन्येऽयमन्यः शरणं विवेश मत्वेशचूडामणिमिन्दुमेणः ॥८०॥

 रुद्रेति ॥ दक्षयज्ञे वीरभद्रावतारस्य रुद्रस्येषुणा विद्रावितम् , अत एव--आर्तं तारारूपं मृगं व्योमनि आरात्समीपे दूरे वा वीक्ष्य बिभ्यत् त्रस्यन् अयमन्योऽपर एण इन्दुमीशस्य चूडामणिं ज्ञात्वा शरणं विवेश । शिवेन शिरसि स्थापितत्वादयं मान्य इत्येतदाश्रयेण रुद्रान्मामयं रक्षिष्यत्येवेत्याशयेनान्यो मृगश्चन्द्रं शरणं प्रविष्ट इत्यर्थ इत्यहं मन्ये । अन्योपि सजातीयं कस्माच्चिद्भीतं दृष्ट्वा स्वयमपि भीतः सन्कमपि शरणं याति । 'गत्वा' इत्यपि पाठः। तारामृगस्य रुद्रेषुविद्रावणं काशीखण्डादौ ज्ञातव्यम् ॥