पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१३
द्वाविंशः सर्गः।


दृश्यां मूर्तिं न विभर्ति तद्वदृश्यो न भवतीतिविरोधादाश्चर्यमित्यर्थः। अथच -दर्पणवद्रुश्यत्वं श्रितोप्यादर्शं दर्शमभिव्याप्य दृश्याममावास्यायां दर्शनयोग्यां मूर्तिं न बिभर्ति। इदानीं पूर्णत्वेन दृश्यमानोपि दर्शे लेशेनापि न दृश्यते इत्यर्थ इति विरोधपरिहारः । दर्पणवदृश्यत्वं श्रितोपि आदर्शं दर्शं मर्यादीकृत्य कृष्णचतुर्दशीमभिव्याप्य दृश्यां मूर्तिं न विभर्ति, अपितु तावत्पर्यन्तं दृश्यो भवत्येवेति वा । तथा-अयं चन्द्रस्त्रिनेत्राद्भवति तादृशस्त्रिनेत्रादुत्पन्नोपि न त्रिनेत्रः । तस्मात्रिनेत्रव्यतिरिक्तात्सकाशादुत्पादमुत्पत्तिमासादयति स्म प्रापेत्येतदपि चित्रम् । त्रिनेत्रादुत्पन्नोपि त्रिनेत्रादुत्पन्नो न भवतीत्याश्चर्यमित्यर्थः । अथ चनेत्रादुत्पन्नोप्योनॆत्रादुत्पत्तिमापेत्येतदपि विरुद्धम् । अथ च-त्रिनेत्रो भूर्वसतिस्थानं यस्य तादृशः, तथा-अत्रेर्मुनेत्राच्चित्रमाश्चर्यरूपमुत्पादं प्रापेति विरोधपरिहारः । सहजसौन्दर्यमाश्रयमाहात्म्यं कुलस्य माहात्म्यं चानेन चन्द्रस्य वर्णितम् । चन्द्रस्यात्रिनेत्रसमुद्भूतत्वं पुराणप्रसिद्धम् ॥

इज्येव देवव्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम्।
हिंसां यथा सैव तथाङ्गमेषा कलङ्कमेकं मलिनं बिभर्ति ॥ ७६ ॥

 इज्योति ॥ देवानां व्रजैः समूहैर्भोज्या पेया ऋद्धिः समृद्धिर्यस्याः सा शुद्धा धवला इयं सुधादीधितेरमृतकरस्य चन्द्रस्य मण्डली इज्येव याग इव, शोभत इति शेषः । इज्यापि देवव्रजभोज्यपुरोडाशादिसमृद्धिः शुद्धा पवित्रा च भवति । तथैषा चन्द्रमण्डली कलङकाख्यमेकं मध्यवर्तिनमङ्गमवयवं मलिनाकारं तथा विभर्ति, यथा सैव इज्येव पूर्वोक्तगुणविशिष्टा सत्यप्येकं पशुहिंसात्मकमङ्गं कर्मसाधनं मलिनं पापहेतुं विभर्ति । परोपकारशीलायाः सर्वात्मना शुद्धाया अपि चन्द्रमण्डल्या दैवादेकमङ्गं मलिनं जातमित्यर्थः । यागे हि हिंसामात्रमेव मालिन्यम् । 'मुधाङ्गम्-' इति पाठे-कलङ्करूपमेकमङ्गं मलिनं वृथैव विभर्ति । शुद्धाया मालिन्ययोगस्यानौचित्यादित्यर्थः । शुद्धस्यापि श्रौतधर्मस्य सांख्यैर्दोषारोपणान्मालिन्यं मुधैवेत्यर्थः । इज्या, 'वजयजो:-' इति क्यप् ॥

एकः पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङ्कुरेषः ।
अस्त्यम्बरेऽनम्बुनि लेलिहास्यः पिबन्नमुष्यामृतबिन्दुवृन्दम् ॥७७॥

 एक इति ॥ एष मृगाङ्के दृश्यमानः प्रसिद्धः एकः पिपासुस्तृपाक्रान्तः सप्तवायुस्कन्धमध्यवर्तिनः प्रयहाख्यस्यानिलस्य मृगवाहनस्य गगनचारिणो रथाच्चयुतो वाहनभूतो रङ्कर्मृगोऽनम्बुनि निर्जलेऽम्बरे लेलिहास्यो नितरां पौनःपुन्येन वास्वादनकारि मुखं यस्य तादृशो भवन्नमुध्य चन्द्रस्यामृतबिन्दुवृन्दं पिबन्सन्नस्ति । तृषाक्रान्तो रथं परित्यज्य पतितो निर्जलेपि गगने चन्द्रामृतबिन्दुवृन्दमास्वादयन्वायुवाहनमृग एवायम्, नतु कश्चित्कलङ्कमृगो नामेत्यर्थः । अस्तीति वर्तमानप्रत्ययेनामृतास्वादनेन चन्द्रं परित्यज्य गन्तुमशक्तोऽद्यापि वर्तत इति सूचितम् । एवमन्योपि तृषाक्रान्तो निर्जले देशे प्रस्रवणादेः पतज्जलबिन्दुवृन्दं पिबन्ननुपशान्तपिपासो लेलिहास्यः संस्तत्रैव चिरं ति-